________________
४०-४३]
षडशीतिनामा चतुर्थः कर्मग्रन्थःः ।
वातुल्ला वा विसेसाहिया वा १ गोयमा ! सव्वत्थोवा जीवा मणपज्जवनाणी, ओहिनाणी असंखेज्जगुणा, आभिणिबोहियनाणी सुयनाणी दो वि तुल्ला विसेसाहिया, विभंगनाणी असंखिगुणा, केवलनाणी अनंतगुणा, मइअन्नाणी सुयअन्नाणी य दो वि तुल्ला अनंतगुणा । ( प्रज्ञा० पद ३ पत्र १३७ - १ ) संयमद्वारे - सर्वस्तोकाः सूक्ष्म सम्पराय संयमिनः शतपृथक्त्व मात्र सम्भवात् । तेभ्यः परिहारविशुद्धिकाः सङ्ख्यातगुणाः, सहस्रपृथक्त्वसम्भवात् । तेभ्योऽपि यथाख्यात चारित्रिणः सङ्ख्यातगुणाः, कोटिपृथक्त्वेन प्राप्यमाणत्वादिति ॥ ४१ ॥
,
छेय समईय संखा, देस असंखगुण णंतगुण अजया ।
थोव असंख दु णंता, ओहि नयण केवल अचक्खू ।। ४२ ।।
२०७
तेभ्यो यथाख्यातचारित्रिभ्यश्छेदोपस्थापनचारित्रिणः सङ्ख्ये यगुणाः, कोटीशत पृथक्त्वेन लभ्यमानत्वात् । तेभ्योऽपि सामायिकसंयमिनः सङ्ख्ये यगुणाः, कोटीसहस्रपृथक्त्वेन प्राप्यमाणत्वात् । तेभ्योऽपि देशविरता असङ्ख्यातगुणाः, असङ्ख्यातानां तिरवां देशविरतिसम्भवात् । तेभ्योऽनन्तगुणाः 'अयताः' संयमहीना आद्यगुणस्थानकचतुष्टयवर्तिन इत्यर्थः, मिथ्यादृशामनन्तानन्तत्वात् । दर्शनद्वारे यथाक्रममेवं पदघटना - स्तोका अवधिदर्शनिनः, सुरनारकाणां नरतिरश्रां च केषाञ्चिदवधिदर्शनसम्भवात्। तेभ्यश्चक्षुर्दशेनिनोऽसङ्ख्यातगुणाः चतुरिन्द्रियादीनामपि चक्षुदर्शननां तत्र प्रक्षेपात् । तेभ्योऽनन्तगुणाः केवलदर्शनिनः, सिद्धानां तेभ्योऽनन्तगुणत्वात्, तेषां च केवलदर्शनयुक्तत्वात् । तेभ्योऽप्यनन्तगुणा अचक्षुर्दर्शनिनः, सर्व संसारिजीवानां सिद्धेभ्योऽनन्तगुणत्वात्, तेषां च नियमादचक्षुर्दर्शनोपेतत्वात् । यदाहुः परममुनयः -
'एएसि णं भंते! जीवाणं चक्खुदंसणीणं अचक्खुदंसणीणं ओहिंदंसणीणं केवलदंसणीण' य करे करेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा १ गोयमा ! (सव्वत्थोवा जीवा ओहिदंसणी, चक्खुदंसणी असंखिज्जगुणा, केवलदंसणी अणन्तगुणा, अचक्खुदंसणी अतगुणा । (प्रज्ञा० पद ३ पत्र १३७ - २ ) इति ।
पच्छाणुपुव्वि लेसा, थोवा दो संख णंत दो अहिया । अभवियर थोव णंता, सासण थोवोवसम संखा ॥ ४३ ॥
१ एतेषां भदन्त ! जीवानां चक्षुर्दर्शनिनामचक्षदर्श निनामवधिदर्शनिनां केवलदर्शनिनां च कतरे कतरेभ्यः अल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोका जीवा अवधिदर्शनिनः, चक्षु दर्श निनोऽसङ्खयं यगुणाः, केवल दर्शनिनोऽनन्तगुणाः, अचक्षुर्दर्शनिनोऽनन्तगुणाः ॥