________________
३७ ] षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१९९ उक्कोसपए असंखिज्जा असंखिज्जाहिं उसप्पिणीओसप्पिणीहिं अवहीरंति कालओ, खित्तओ उक्कोसपए रूवपक्खित्तेहिं मरगूरी हिं सेढी अवहीरइ, असंखेज्जाहिं अवसप्पिणीहिं उस्सप्पिणीहिं कालओ, खित्तओ अंगुलपढमवग्गमूलं तइयवग्गमूलपडप्पन्नं ॥ (पत्र २०५--२) - अस्येयमारगमनिका----उत्कृष्टपदे मनुष्या असङ्खये योत्सर्पिण्यवसर्पिणीसमयराशितुल्याः । क्षेत्रतस्त्वेकस्मिन् मनुष्यरूपे प्रक्षिप्ते मनुष्यरूपेरेका नभःप्रदेशश्रेणिरपहियते । कियता कालेन ? इत्याह----असङ्खये योत्सपिण्यवसर्पिणीभिः । कियता क्षेत्रखण्डापहारेण ? इत्याह--"अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पन्न" ति श्रेणेरङ्गुलप्रमाणे क्षेत्रे यः प्रदेशराशिस्तस्य यत् प्रथमं वर्गमूलं तत् तृतीयवर्गमूलप्रदेशराशिना गुण्यते, गुणिते च यः प्रदेशराशिर्भवति तत्प्रमाणं क्षेत्रखण्डमेलोक रूपमपहरति । अयमर्थः--इह किलागुलप्रमाणक्षेत्रे नमःप्रदेशराशिः सद्भावतोऽसङ्खये यप्रदेशपरिमाणोऽप्यसत्कल्पनया षट्पञ्चाशदधिकशतद्वयपरिमाणः कल्प्यते २५६; अत्र प्रथम वर्गमूलं पोडश १६, द्वितीयं वर्गमूलं चत्वारि ४, तृतीयं वर्गमूलं द्वे २; तत्र प्रथमवर्गमूलं षोडशलक्षणं तृतीयवर्गमूलेन गुणितं जाता द्वात्रिंशत् ३२, एवमेते नमःप्रदेशाः सद्भावतोऽसङ्खये या अप्यसत्कल्पनया द्वात्रिंशत्सङ्ख्याः परिग्राह्याः। ततः श्रेणेमध्याद् यथोक्तप्रमाणं द्वात्रिंशप्रदेशप्रमाणमित्यर्थः क्षेत्रखण्डं यद्येक मनुष्यरूपं क्रमेण प्रतिसमयमपहरति तदाऽसङ्खये योत्सर्पिण्यवसर्पिणीभिः सर्वाऽपि श्रेणिरपहियते यद्येकं मनुष्यरूपं स्यात् , तच्च नास्ति, सर्वोत्कृष्टानामपि समुदितगर्भजसम्मूर्छजमनुष्याणामे तावतामेव भावात् । इदमुक्तं भवति----उत्कृष्टपदवर्तिभिरपि सर्वतः सप्तरज्जुप्रमाणस्य धनीकृतस्य लोकस्यैकैकप्रदेशपङ्क्तिरूपं श्रेणिमात्रमपि अङ्गुलमात्रप्रदेशराशिसम्बन्धितृतीयवर्गमूलगुणितप्रथमवर्गमूलप्रदेशप्रमाणैरसत्कल्पनया पटपञ्चाशदधिकशतद्वयप्रमाणाङ्गुलमात्रक्षेत्रप्रदेशराशिसम्बन्धिद्विकलक्षणतृतीयवर्गमूलगुणितपोडशकलक्षणप्रथमवर्गमूललब्धद्वात्रिंशत्प्रदेशप्रमाणैराकाशखण्डैर्मनुष्यरूपस्थानीयैरपहियमाणमपि नापहियते, एकरूपहीनत्वात् । यदि पुनरेकं रूपमन्यत् स्यात् ततः सकलाऽपि श्रेणिरपहियेत । कालतश्च प्रतिसमयमेतावत्प्रमाणैरप्याकाशखण्डेरपहियमाणा श्रेणिरसङ्ख्याताभिरुत्सर्पिण्यवसर्पिणीभिनिःशेषतोऽपहियते, कालतः सकाशात् क्षेत्रस्यात्यन्तसूक्ष्मत्वात् । उक्तं च---
"उक्कोसपए जे मणुस्सा हवंति तेसु इक्वम्मि मणूसरूवे पक्खित्ते समाणे तेहिं मगुस्रोहिं सेढी
उत्कृष्टपदे ये मनुष्या मवन्ति तेष्वेकस्मिन् मनुष्यरूपे प्रक्षिप्ते सति तर्मनुष्यैः श्रेणिरपहियते । तस्याश्च श्रेणेः काल क्षेत्राभ्यां अपहारो मृग्यते-कालतस्तावदसङ्घय याभिरुत्सर्पिण्यवसर्पिणीभिः क्षेत्रतोऽङगुलप्रथमवर्गमूलं तृतीयवर्गमूगुणितम् । किं भणितं भवति ?-तस्याः श्रेणेरङ्गुलायते खण्डे यः प्रदेशराशिः तम्य यत् प्रथमवर्गमूलप्रदेशराशिमानं तत् तृतीयवर्गमूलप्रदेशराशिगुणिते सति यः प्रदेशराशिर्भवति एतावद्भिः खण्डैरपह्रियमाणाऽपहियमाणा यावन्निस्तिष्ठति तावद् मनुष्या अपि अपहियमाणा अपद्वियमाणा निस्तिष्ठन्ति ।