________________
३५-३७ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
तत्वात् । 'शेषस्थानेषु' सुरगतौ तिर्यग्गतौ मनुष्यगतौ पञ्चेन्द्रियत्र सकाययोगत्रयवेदत्रयकषायचतुष्टयमतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यायज्ञानमत्यज्ञानश्रुताज्ञानविभङ्गज्ञानसामायिकच्छेदोपस्थापन परिहारविशुद्धिकदेशविरता विरतचक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शन भव्याभव्य क्षायिकक्षायोपश मिकौपशमिकसास्वादनमिश्रमिथ्यात्व संज्ञयाहारकानाहारकलक्षणैकचत्वारिंशत्सु शेषमार्गणास्थानby पडपिलेश्याः ।
उक्ता मार्गणास्थानेषु लेश्याः । इदानीं मार्गणास्थानेषु स्वस्थानापेक्षयाऽल्पबहुत्वं निरूरूपयिषुराह—'नरनिरय' इत्यादि । इह यथासङ्घयेन योजना कर्तव्या । सा चैवम् — नरा निरयदेवतिर्यग्योनिकेभ्यः सकाशात् स्तोकाः । यत इह द्विविधा नराः - - वान्तपित्तादिजन्मानः सम्मूर्छजाः, स्त्रीगर्भोत्पन्नाः गर्भजाय । तत्राद्याः कदाचिद् न भवन्त्येव, जघन्यतः समयस्य उत्कृष्टतस्तु चतुर्विंशतिमुहूर्तानां तदन्तरकालस्य प्रतिपादितत्वात् ।
यदाह सन्देहसन्दोहशैलशृङ्गभङ्गदम्भोलिर्भगवान् जिन भद्रगणिक्षमाश्रमण:बारस मुहुत्त गन्भे, उक्कोस समुच्छिमेसु चउवीसं ।
उक्कोस विरहकालो, दोसु वि य जहन्नओ समओ ।। ( बृ० सं० पत्र १३० - १ ) उत्पन्नानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परतः सर्वेषां निर्लेपत्वसम्भवाद् यदा तु भवन्ति तदा जघन्यतएको द्वौ त्रयो वा उत्कृष्टतस्त्वसङ्ख्याताः । इतरे तु सर्वदैव सङ्ख्ये या भवन्ति नासङ्ख्ये याः, तत्र सङ्घये यकस्य सङ्ख्यात भेदत्वान्न ज्ञायते कियदपि सङ्खये यकम् अतो विशेषत इदं प्ररूप्यते - इह पष्ठवर्गः पञ्चमवर्गेण यदा गुणितो भवति तदा गर्भजमनुष्यसङ्ख्या भवति । अथ कोऽयं पष्ठः ( ग्रन्थाग्रम् - १५०० ) वर्गः ९ कश्च पञ्चमः ९ इत्येतदुच्यतेविवक्षितः कश्चिद् राशिस्तेनैव राशिना यत्र गुण्यते स तावद् वर्गः । तत्रैकस्य वर्ग एव न भवति, अतो वृद्धिरहितत्वादेष वर्ग एव न गण्यते । द्वयोस्तु वर्गश्चत्वारो भवन्ति, एष प्रथमो वर्गः ४ । चतुर्णां वर्गः षोडशेति द्वितीयो वर्गः १६ । षोडशानां वर्गों द्वे शते पट्पञ्चाशदधिके तृतीयो वर्गः २५६ | अस्य राशेर्वर्गः पञ्चषष्टिः सहस्राणि पञ्च शतानि पत्रिंशदधिकानि चतुर्थो वर्गः ६५५३६ । अस्य राशेर्वर्गः सार्धगाथया प्रोच्यते
" चत्तारि य कोडिसया, अउणत्तीसं च हुति कोडीओ | अणावन्नं लक्खा, सत्तट्ठि चैव य सहस्सा ॥
१९७
१ सा चैक्ये द्वन्द्वमेययोरिति 'एकचत्वारिंशति' इति माव्यम्, भविष्यत्यपि, तथापि लेखकेन पण्डितंमन्येन वा केनाप्येतद् अङ्कितं लक्ष्यते ॥ २ द्वादश मुहूर्त्ता गर्भजेषु सम्मूच्छिमेषु चतुर्विंशतिः । उत्कर्षतो विरहकालः द्वयोरपि च जघन्यतः समयः || ३ चत्वारि च कोटिशतानि एकोनत्रिंशच्च भवन्ति कोटयः । एकोनपञ्चाशद् लक्षाः सप्तषष्टिरेव च सहस्राणि ॥ द्व े च शते षण्णवतिः पञ्चमवर्गोऽयं विनिर्दिष्टः ॥