________________
१६६
देवेन्द्रसूरिविरचितस्वोपज्ञटीको पैतः
[ गाथा
च तदानीं मनोयोगः, अपर्याप्तावस्थायां मनस एवाभावात्, केवलिसमुद्घातावस्थायां तु प्रयोजनाभावात् । उक्तं च
मनोवचसी तु तदा सर्वथा न व्यापारयति प्रयोजनाभावात् । ( धर्मसारमूलटीकायाम् ) तथा 'वचने' मनोयोगविरहिते वाग्योगे क्रमाद् अष्टौ जीवस्थानानि-पर्याप्तापर्याप्तद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियरूपाणि, द्वे गुणस्थाने - मिध्यात्वसासादनलक्षणे, चत्वारो योगाःकार्मणौदारिकमिश्रौदारिकासत्यामृपावाग्योगरूपाः, चत्वार उपयोगाः-मत्यज्ञानश्रुताज्ञानचक्षुर्दर्शनाचक्षुर्दर्शनलक्षणाः । वाग्योगो हि मनोयोगविरहितस्वभावो द्वीन्द्रियादिष्वेवाऽसंज्ञिपञ्चेन्द्रियपर्यन्तेषु सम्भवति नान्येषु । ततो यथोक्तान्येव जीवस्थानकादीनि तत्र सम्भवन्ति नोनाधिकानि । तथा केवलकाययोगे चत्वारि पर्याप्ता पर्याप्तसूक्ष्मवाद केन्द्रियलक्षणानि जीवस्थानकानि द्वे आ गुणस्थानके --मिथ्यादृष्टिसासादनलक्षणे, पञ्च योगाः - वै क्रियद्विकौदा रिकद्विककार्मणरूपाः, त्रय उपयोगाः-मत्यज्ञानश्रुताज्ञानाचक्षुर्दर्शनस्वरूपाः । केवलकाययोगो हि एकेन्द्रियेष्वेवावाप्यते, तत्र जीवस्थानकादीनि यथोक्तान्येव घटन्त इति ।। ३५ ।।
अभिहितं योगेऽवेकीयमतम् । साम्प्रतं मार्गणास्थानेषु लेश्या अभिधित्सुराह-
सु लेसासु सठाणं, एगिंदि असन्नि भूदगवणेसु ।
पदमा चउरो तिन्नि उ, नारय विगलग्गि पवणेसु || ३६ ||
षड्लेश्यासु स्वस्थानं स्वा स्वा लेश्या भवति, यथा कृष्णलेश्यायां कृष्णलेश्या इत्यादि । सामान्यत एकेन्द्रियेषु 'असंज्ञि ( नि' मनोविज्ञानरहिते) 'भूदकवनेषु' पृथिव्यम्बु वनस्पतिषु प्रथमा:कृष्णनीलकापोततेजोलेश्याश्चतस्रो भवन्ति, भवनपतिव्यन्तरज्योतिष्कसौधर्मेशान देवा हि स्वस्वभवच्युत एतेषु मध्ये समुत्पद्यन्ते ते च तेजोलेश्यावन्तः, जीवश्च यल्लेश्य एव म्रियते अग्रेऽपि तल्लेश्य एवोपपद्यते, "जल्ले से मरइ तल्ले से उववज्जइ" इति वचनात् । तत एतेषामपर्याप्तावस्थायां कियत्कालं तेजोलेश्या भवति । नारकेषु 'विकलेषु' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु 'अग्निषु ' तेजस्कायेषु 'पवनेषु' वायुकायिकेषु / प्रथमास्तिस्रः - कृष्णनीलकापोतलेश्या भवन्ति नाऽन्याः, प्रायोऽमीषामप्रशस्ताध्यवसायस्थानोपेतत्वात् || ३६||
अहखाय सुम केवलदुगि सुक्का छावि सेसठाणेसु । नरनिरयदेव तिरिया, थोवा दु असंखऽणंतगुणा || ३७ ॥
यथाख्यातसंयमे सूक्ष्मसम्परायसंयमे च 'केवल द्विके' केवलज्ञान केवल दर्शन रूपे शुक्ललेश्यैव न शेपलेश्याः, यथाख्यात संयमादौ एकान्तविशुद्धपरिणामभावात् तस्य च शुक्ललेश्याऽविनाभू