________________
३२-३५ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१९५
मज्ञानमिश्रं द्रष्टव्यम्, मतिज्ञानं मत्यज्ञानमिश्रं १ श्रुतज्ञानं श्रुताज्ञानमिश्रं २ अवधिज्ञानं विभङ्गज्ञानमिश्र ३ दर्शनत्रिकं ३ चेति मिश्रेऽपि षडुपयोगाः सिद्धा भवन्ति । इह चापधिदर्शन मांगमाभिप्रायेण उच्यते, अन्यथा एतेष्वेव मार्गणास्थानकेषु गुणस्य नव मार्गणाया 'अजयाइ नव महसुओहिदुगे" ( गा० २१ ) इत्युक्तमिति ॥ ३३ ॥
मणनाणचक्खुवज्जा, अणहारे निन्न दंस चउ नाणा | चउनाणसंजमोवसम वेयगे ओहिदंसे य ॥ ३४ ॥
मनःपर्यायज्ञानचक्षुर्दर्शन वर्जाः शेषा दशोपयोगा अनाहारके भवन्ति । यत्तु मनः पर्यवज्ञानं चक्षुर्दर्शनं तच्चानाहारके न सम्भवति, यतोऽनाहारको विग्रहगतौ केवलिसमुद्घातावस्थायां च, न च तदानीं मनःपर्यायज्ञानचक्षुर्दर्शनसम्भव इति । तथा ' त्रीणि दर्शनानि' चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शन रूपाणि 'चत्वारि ज्ञानानि' मतिश्रुतावधिमनःपर्याय लक्षणानीत्येवं सप्तोपयोगा भवन्ति; क्व १ इत्याह- चतुःशब्दस्य प्रत्येकं सम्बन्धात् चतुषु ज्ञानेषु - मतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यायज्ञानेषु, तथा चतुषु संयमेषु - सामायिकच्छेदोपस्थापन परिहारविशुद्धिकसूक्ष्म सम्परायेषु, औपशमिके सम्यक्त्वे 'वेदके' क्षायोपशमिकापरपर्याये', अवधिदर्शने 'चः' समुच्चये, न शेषाः, तत्सद्भावे मत्यज्ञानादीनामसम्भवात् । इहाप्यवधिदर्शने मत्यज्ञानाद्युपयोगप्रतिषेधो बहुश्रुताचार्याभिप्रायापेक्षया द्रष्टव्यः, अन्यथा हि मत्यज्ञानादिमतामपि सूत्रे साक्षाद् अवधिदर्शनं प्रतिपादितमेव, प्रज्ञप्तिसूत्रं च प्रागेवोक्तमिति ॥ ३४ ॥
उक्ता मार्गणास्थानेषु उपयोगाः । अथ योगेषु जीवगुणस्थानकयोगोपयोगान् अधिकृत्य
मतान्तरमाह
दो तेर तेर बारस, मणे कमा अड दु चर चर वयणे ।
दु पण तिन्निकाए, जियगुणजोगोवओगऽन्ने ॥ ३५ ॥
अन्ये त्वाचार्याः ‘“मणि” त्ति मनोयोगे द्वे जीवस्थानके, त्रयोदश गुणस्थानकानि, त्रयोदश योगाः, द्वादशोपयोगा इतीच्छन्ति ' क्रमात् ' क्रमेण यथासङ्ख्यमित्यर्थः । अत्रायमभिप्रायःप्राग् योगान्तरसहितोऽसहितो वा स्वरूपमात्रेणैव काययोगादिविवक्षितस्तेन तत्र यथोक्तगुणस्थानका दिवक्तव्यता सर्वाऽप्युपपद्यते, इह तु काययोगादिर्योगान्तरविरहित एव विवक्ष्यते । यथामनोयोगायोगविरहितः काययोगः, मनोयोगविरहितो वाग्योगः । ततो मनोयोगे द्वे अन्तिमे जीवस्थानके, अयोगिकेवलिवर्जितानि त्रयोदश गुणस्थानानि, कार्मणौदारिकमिश्रवर्जितात्रयोदश योगाः, कार्मणौदारिकमिश्रौ हि काययोगौ अपर्याप्तावस्थायां केवलिसमुद्घातावस्थायां वा । न १ 'ये, अवधिद्विके अवधिज्ञानावधिदर्शनरूपे चः क० ख०ग० घ० ङ० मुद्रितपुस्तकादर्शे च ॥
-~