________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
चरिंदि सन्नि दुअनाणदंस इग बिति थावरि अचक्खू !. तिअनाणं दंसणदुर्ग, अनाणतिग अभव मिच्छडुगे || ३२ ॥ चतुरिन्द्रिये असंज्ञिनि च चत्वार उपयोगा भवन्ति । के ते ? इत्याह- द्व्यज्ञानदर्शने ' द्वे अज्ञाने-मत्यज्ञानश्रुताज्ञानरूपे, द्वे दर्शने - चक्षुर्दर्शना चक्षुर्दर्शनलक्षणे इत्यर्थः । तथा त एव पूर्वोक्ताश्चत्वार उपयोगाः " अचक्खु" त्ति अचक्षणः - चक्षुर्दर्शनहिताः सन्तस्त्रयो भवन्ति । केषु ? इत्याह- “हग" त्ति सामान्यत एकेन्द्रियेषु द्वीन्द्रियेषु त्रीन्द्रियेषु 'स्थावरेषु' पृथिव्यम्बुतेजोवायुवनस्पतिषु । कोऽर्थः ? एक द्वित्रीन्द्रियस्थावरेषु मत्यज्ञानश्रुताज्ञानाचक्षुर्दर्शनरूपास्त्रय उपयोगा भवन्तीत्यर्थः, न शेषाः, यतः सम्यक्त्वाभावाद् मतिश्रुतज्ञानासम्भवः, सर्वविरत्यभावाच्च मनःपर्यायज्ञानकेवलज्ञानकेवलदर्शनाभावः, यत् पुनरवधिद्विकं विभङ्गज्ञानं च तद् भवप्रत्ययं गुणप्रत्ययं वा न चानयोरन्यतरोऽपि प्रत्ययः सम्भवति, चक्षुर्दर्शनोपयोगाभावस्तु चक्षुरिन्द्रियाभावादेव सिद्धः । तथा त्रयाणामज्ञानानां समाहारः व्यज्ञानम्, अज्ञानत्रयम्-मत्यज्ञानश्रुताज्ञानविभङ्गरूपं 'दर्शनद्विकं' चक्षुर्दर्शनाचक्षुर्दर्शनलक्षणमित्येते पश्चोपयोगा भवन्ति । क्व ? इत्याह'अज्ञानत्रिके' मत्यज्ञानश्रुताज्ञानविभङ्गरूपे । यत्त्वज्ञानत्रिकेऽवधिदर्शनं पूर्वाचार्यैः कुतश्चित् कार - णाद् नेष्यते तद् न सम्यगवगच्छामः, तथाविधसम्प्रदायाभावात् ; अथ च सिद्धान्ते प्रतिपाद्यते, तथा च ज्ञप्ति सूत्रं पूर्वदर्शितमेव, तदभिप्रायादस्माभिरपि नोक्तमिति । 'अभवे' अभव्ये 'मिथ्यात्वद्विके' मिथ्यात्वे सास्वादने [च] पञ्चोपयोगाः - अज्ञानत्रिकदर्शनाद्विकरूपा न शेषाः, अवदातसम्यक्त्वविरत्यभावादिति ।। ३२ ।।
१६४
केवलदुगे नियदुर्ग, नव तिअनाण विणु ग्वहय अहखाए । दंसणनाणतिगं देसि मीसिं अन्नाणमीस तं ॥ ३३ ॥
[ गाथा
'केवल द्विके' केवलज्ञान केवलदर्शनलक्षणे 'निजद्विक' केवलज्ञान केवल दर्शन रूपमुपयोगद्विकं भवति, न शेषा दश, ज्ञानदर्शन व्यवच्छेदेनैव केवलयुगलस्य सद्भावात्, "नट्टम्मि उ छाउमथिए नाणे " ( आ० नि० गा० ५३६ ) इति वचनात् । तथा क्षायिके सम्यक्त्वे यथाख्याते च संयमे नवोपयोगा भवन्ति । के ते १ इत्याह- 'अज्ञानत्रिकं मतिश्रुताज्ञानविभङ्गज्ञानलक्षणं विना, यतः क्षायिकयथाख्यातयोरज्ञानत्रिकं न भवत्येव, तस्य मिध्यात्वनिबन्धनत्वात्, नि तो मिथ्यात्व येणोपशमेन च क्षायिकसम्यक्त्वयथाख्यातोत्पादात्, अत एतयोर्नवैवोपयोगा भवन्तीति । तथा 'देशे' देशविरते षडुपयोगा भवन्ति । कथम् ९ इत्याह - ' दर्शनज्ञानत्रिकं ' त्रिकशब्दस्य प्रत्येकं सम्बन्धः, दर्शन त्रिकं - चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनरूपम्, ज्ञानत्रिकमतिश्रुतावधिज्ञानरूपमिति, न शेषाः, मिथ्यात्व सर्व विरत्यभावात् । मिश्र तदेव दर्शनज्ञानत्रिक