________________
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
'कतिविहे णं भंते ! उवओगे पन्नत्ते ? गोयमा ! दुविहे उवओगे पन्नत्ते, तं जहा सागारोवओगे य अणागारोवओगे य । सागारोवओगे णं भंते ! कतिविहे पन्नत्ते ? गोयमा ! अट्ठविहे पन्नत्ते, तं जहा - आभिणिवोहियनाणसागारोवओगे सुयनाणसागारोवओगे ओहिनाणसागारोवओगे मणपज्जवनाणसागारोवओगे केवलनाणसागारोवओगे मइअन्नाणसागारोवओगे सुयअन्नाणसागारोवओगे विभंगनाणसागारोवओगे । अणागारोवओगे णं भंते ! कवि हे पन्नत्ते ! गोयमा ! चउच्चिहे पन्नत्ते, तं जहा - चक्खुदंसणअणागारोवओगे अचक्खुदंसणअणागारोवओगे ओहिदंसण अणागारोवओगे केवलदंसणअणागारोवओगे य ॥ ( उपयो० पद २९ पत्र ५२५ - १ )
३०-३१]
भावार्थ: प्रागेव मार्गणास्थाने भेदाभिधानावसरे सप्रपञ्चमभिहित इति । "विणु मणनाण" इत्यादि, विना मनःपर्यायज्ञानं केवलद्विकं च - केवलज्ञानकेवलदर्शनलक्षणं शेषा नवोपयोगा भवन्ति ‘सुरे' सुरगतौ “तिरि" त्ति तिर्यग्गतौ ' नरके' नरकगतौ 'अयते' विरतिहीने, एतेषु सर्वेष्वपि हिं सर्वविरत्यसम्भवेन (मनःपर्यायज्ञानकेवलद्विकासम्भवादिति ।। ३० ।।
·
तस जोय वेय सुक्काहार नर पर्णिदि सन्नि भवि सव्वे । नयनेयर पण लेसा, कसाइ दस केवलडुगूणा ॥ ३१ ॥
१६३
त्रसेषु 'योगेषु' मनोवाक्कायरूपेषु 'वेदेषु' द्रव्यवेदरूपस्त्रीपु ंनपुं सकलक्षणेषु शुक्ललेश्यायाम् आहारकेषु नरगतौ पञ्चेन्द्रियेषु संज्ञिषु " भवि" त्ति भव्येषु च सर्वे द्वादशाप्युपयोगाः सम्भवन्ति, एतेषु सर्वेष्वपि सम्यक्त्वदेशविरति सर्वविरत्यादीनां सम्भवात् । " नयणं" ति चक्षुर्दर्शने "इयर" त्ति अचक्षुर्दर्शने 'पञ्चसु लेश्यासु' कृष्णनीलकापोततेजः पद्मलेश्यासु 'कषायेषु' क्रोधमानमायालोभेषु दश उपयोगा भवन्ति । के ? इत्याह- केवलद्विकेन ऊना :-- हीना ज्ञानचतुष्टयाऽज्ञानत्रिकदर्शनत्रिकरूपाः, न तु केवलद्विकम् चक्षुर्दर्शनादिसद्भावेऽनुत्पादात् तस्य ।। ३१ ।।
3
१ कतिविधो भदन्त ! उपयोगः प्रज्ञप्तः ? गौतम ! द्विविध उपयोगः प्रज्ञप्तः १ तद्यथा - साकारोपयोगश्चानाकारोपयोगश्च । साकारोपयोगो भदन्त ! कतिविधः प्रज्ञप्तः ? गौतम ! द्विविध उपयोगः प्रज्ञप्तः, तद्यथा - साकारोपयोगश्चानाकारोपयोगश्च । साकारोपयोगो भदन्त ? कतिविधः प्रज्ञप्तः ? गौतम ! अष्टविधः प्रज्ञप्तः, तद्यथा-आभिनिबोधिकज्ञानसाकारोपयोगः १ श्रुतज्ञानसाकारोपयोगः २ अवधिज्ञानसाकारोपयोगः ३ मनः पर्यवज्ञान साकारोपयोगः ४ केवलज्ञान साकारोपयोगः ५ मत्यज्ञान साकारोपयोगः ६ श्रुताज्ञानसाकारोपयोगः ७ विभङ्गज्ञानसाकारोपयोगः ८ । अनाकारोपयोगो भदन्त ? कतिविधः प्रज्ञप्तः ? गौतम ! चतुर्विधः प्रज्ञप्तः, तद्यथा - चक्षुर्दर्शनानाकारोपयोगः १ अचक्षुर्दर्शनानाकारोपयोगः २ अवधिदर्शनानाकारोपयोगः ३ केवल दर्शनानाका रोपयोगः ४ ॥
२५