________________
१९२] देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा भाष्यकारोऽप्याह
'तदसंखेज्जगुणाए, गुणसेढीइ रइयं पुरा कम्मं । समए समए 'खविउं, कमेण सव्वं तहिं कम्मं (विशेषा. गा. ३०८२)
रिउसेढीपडिवन्नो, समयपएसंतरं अफुसमाणो।
एगसमएण सिज्झइ, अह सागारोवउत्तो सो ॥ (विशेषा० गा० ३०८८) अयं च समुद्घातविधिः सर्वोऽप्यावश्यकाभिप्रायेणोक्तः । तत्रेयं गाथा
दंड कवाडे मंथंतरे य संहरणया सरीरत्थे । भासाजोगनिरोहे, सेलेसी सिज्झणा चेव ॥ (आ० नि० गा० ९५५) इति ॥२६॥ अभिहिता मार्गणास्थानेषु योगाः । साम्प्रतमेतेष्वेव उपयोगस्वरूपनिरूपणपूर्वकमुपयोगानभिधित्सुराह
तिअनाण नाण पण चउ देसण घार जिय लकवणुवओगा।
विणु मणनाण दुकेवल, नष सुरतिरिनिरयअजएसु ॥३० । 'त्रीण्यज्ञानानि' मत्यज्ञानश्रुताज्ञानविभङ्गरूपाणि 'ज्ञानानि' मतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यवज्ञान केवलज्ञानलक्षणानि पञ्च स्वोपज्ञकर्मविपाकटोकायां विस्तरेणाभिहितस्वरूपाणि 'चत्वारि दर्शनानि' चक्षुर्दर्शनाचक्षुर्दर्शनावधिर्शनकेवलदर्शनरूपाणि इत्येवं द्वादशोपयोगाः प्राग्निरूपितशब्दार्था भवन्ति । किंविशिष्टाः ? इत्याह--"जिय लक्खण"त्ति प्राकृतत्वाद् विभक्तिलोपः, 'जीवस्य' आत्मनः 'लक्षणं' लक्ष्यते-ज्ञायते तदन्यव्यवच्छेदेनेति लक्षणम्-असाधारण स्वरूपम् । अत एवोक्तमन्यत्र-"उपयोगलक्षणो जीवः" इति । ते च द्विधा--साकारा अनाकाराश्च । तत्र पञ्च ज्ञानानि त्रीण्यज्ञानानि इत्यष्टावुपयोगाः साकाराः, चत्वारि दर्शनानि अनाकारा उपयोगाः । यदाह प्रवचनार्थसार्थसरससरसीरुहसमूहप्रकाशनसहनभानुभगवान् श्रीमदार्य: श्यामः प्रज्ञापनायामुपयोगपदेऽष्टमे
१ सदसङ्ग्य यगुणया गुणश्रेण्या रचितं पुरा कर्म । समये समये क्षपयित्वा क्रमेण सर्व तत्र कर्म ॥ २ स्ववियं कमसो सेलेसिकालेणं । इति विशेषावश्यकभाष्ये ॥ ३ ऋजुश्रेणिप्रतिपन्नः समयप्रदेशान्तरमस्पृशन् । एकसमयेन सिध्यति अथ साकारोपयुक्तः सः॥ ४दण्ड कपाट मन्था अन्तराणि संहरणता शरीरस्थः । भाषायोगनिरोधः शैलेशी सिद्धिश्चैव ।। ५ अस्मत्पाववर्तिषु सर्वेष्वपि पुस्तकादशेषु जैनधर्मप्रचारकसभया मुद्रिते चादर्श "उपयोगपदेऽष्टमे" इत्येवमेवोपलभ्यते परं प्रज्ञापनाया अष्टमपदं तु संज्ञा. पदमेव, उपयोगपदं तु एकोनत्रिंशत्तममेवेति ॥