________________
१८८] देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा दण्डात्मनि सङ्कोचनात् , अष्टमे समये दण्डं समुपहृत्य शरीरस्थ एव भवति । न चैतत् स्वमनीषिकाविजृम्भितम् । यदाहुद्धाः
'उडाहायय लोगंतगामिणं सो सदेहविक्खंभं । पढमसमयम्मि दंडं, करेइ बिइयम्मि उ कवाडं ॥ तइयसमयम्मि मंथं, चउत्थए लोगपूरणं कुणइ ।
पडिलोमं संहरणं, काउं तो होड देहत्थो ।। (विशेषागा० ३०५२-३०५३) वाचकवरोऽप्याह
दण्डं प्रथमे समये, कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये, लोकव्यापी चतुर्थे तु ॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः पष्ठे ।
सप्तमके तु कपाटं, संहरति ततोऽष्टमे दण्डम् ।। (प्रश० का० २७४-२७५) सस्येदानी समुद्घातस्य योगव्यापारश्चिन्त्यते-योगाश्च मनोवाक्कायाः, अत्रैषां कः कदा व्याप्रियते १ । तत्रेह मनोवाग्योगयोरव्यापार एव, प्रयोजनाभावात् ।
यदाह धर्मसारमूलटीकायां भगवान् श्रीहरिभद्रसूरिः— मनोवचसी तदा न व्यापारयति, प्रयोजनाभावात् ।
काययोगस्य तु औदारिककाययोगस्यौदारिकमिश्रकाययोगस्य वा कार्मणकाययोगस्य वा व्यापारो न शेषस्य, लब्ध्युपजीवनाभावेन शेषस्य काययोगस्याऽसम्भवात् । तत्र प्रथमाष्टमसमययोरौदारिककायप्राधान्याद् औदारिककाययोग एव, द्वितीयषष्ठसप्तमकेषु पुनः कार्मणशरीरस्यापि व्याप्रियमाणत्वाद् औदारिकमिश्र एव, तृतीयचतुर्थपञ्चमेषु तु केवलमेव कार्मणं शरीरं व्यापारभागिति कार्यणकाययोगः ।।
यदाहुः श्रीमदार्यश्यामपादाः श्रीप्रज्ञापमायां षट्त्रिंशत्तमे समुद्घातपदे
पढमट्ठमेसु समएसु ओरालियसरीरकायजोगं जुजइ, विड्यछट्ठसत्तमेसु समएसु ओरालियमीसगसरीरकायजोगं जुजइ, तइयचउत्थपंचमेसु समएसु कम्मगसरीरकायजोगं जुजइ ।। (पत्र ६०१-२)
१ ऊर्ध्वाधआयतं लोकान्तगामिनं स स्वदेहविष्कम्मम् । प्रथमसमये दण्डं करोति द्वितीये तु कपाटम् ॥ तृतीयसमये मन्थानं चतुर्थ के लोकपूरणं करोति । प्रतिलोमं संहरणं कृत्वा ततो भवति देहस्थः । २ प्रथमाष्टमयोः समययोमेदारिकशरीरकाययोगं युक्ति, द्वितीयषष्ठसप्तमेषु समयेषु औदारिकमिश्रशरीरकाययोगं युनक्ति, तृतीय चतुर्थपञ्चमेषु समयेषु कार्मणशरीरकाययोगं युनक्ति !!