________________
२९ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
भाष्यकारोऽप्याह-
नकर समुग्धायगओ, मणवइजोगप्पओयणं कुणइ | ओरालियजोगं पुण, जुजइ पढमट्ठमे समए ॥ उभयव्वावाराओ, तम्मीसं बीयछट्टसत्तमए 1 तिचउत्थपंचमे कम्मगं तु तम्मत्तचिट्ठाओ || (विशे०गा० ३०५४ - ३०५५) ततः समुद्घातात् प्रतिनिवृत्तो मनोवाक्काययोगत्रयमपि व्यापारयति । यतः स भगवान् भवधारणीयकर्मसु नामगोत्र वेदनीयेष्वचिन्त्यमाहात्म्य समुद्घातत्रशतः प्रभूतमायुषा सह समीकृतेष्वप्यन्तमुहूर्त भावपरमपदो यदाऽनुत्तरौपपातिकादिना देवेन मनसा पृच्छ्यते तर्हि व्याकरणाय मनःपुलान् गृहीत्वा मनोयोगं युनक्ति, तमपि सत्यमसत्यामृषारूपं वा, मनुष्यादिना पृष्टः सन् अपृष्टो वा कार्यवशाद् गृहीत्वा भाषापुद्गलान् वाग्योगम्, तमपि सत्यमसत्यामृषारूपं वा, न शेषान् वाङ्मनोयोगान्, क्षीणरागद्वेषत्वात् ; काययोगं तु गमनादिचेष्टासु, तदेवमन्तर्मुहूर्त कालं यथायोगं योगत्रयव्यापार भाक् केवली भूत्वा तदनन्तरम् अत्यन्ताप्रकम्पं लेश्यातीतं परमनिर्जराकारणं ध्यानं प्रतिपित्सुरवश्यं योगनिरोधाय उपक्रमते, योगे सतिं यथोक्तरूपस्य ध्यानस्या - सम्भवात् । यदाह भाष्यसुधाम्भोधि:
-
[ १८९
11
विणिवत्तसमुग्धाओ, तिन्नि वि जोगे जिणो पउंजिजा । सच्चमसच्चामोस, च सो मणं तह वईजोगं ओरालकाय जोगं, गमणाई पाडिहारियाणं च 1 पच्चप्पणं करिजा, जोगनिरोहं तओ कुणई ॥ किं न सजोगो सिज्झइ, स बंधहेउ ति जं खलु सजोगो । न समेइ परमसुक्कं स निज्जराकारणं परमं ।। (विशेषा० गा० ३०५६-३०५८)
अन्यत्राप्युक्तम्-
स ततो योगनिरोध ं करोति लेश्यानिरोधमभिकाङ्क्षन् ।
"
समयस्थितिं च बन्ध, योगनिमित्तं स निरुरुत्सुः ॥
९ न किल समुद्घातगतो मनोवाग्योगप्रयोजनं करोति । औदारिकयोगं पुनर्युनक्ति प्रथमाष्टमयोः समययोः ॥ उमयव्यापारात् तन्मिश्रं द्वितीयषष्ठसप्तमेषु । तृतीयचतुर्थपामेषु कामणं तु तन्मात्र चेष्टायाः ॥ २ विनिवृत्तसमुद्घात त्रीनपि योगान् जिनः प्रयुञ्जीत । सत्यमसत्यामृपं च स मनस्तथा वाग्योगम् ॥ औदारिककाययोगं गमनादि प्रातिहारिकाणां च । प्रत्यर्पणं कुर्यात् योगनिरोधं ततः करोति ॥ किं न सयोगः सिध्यति स बन्धहेतुरिति यत् खलु सयोगः । न समेति परमशुक्लं स निर्जराकारणं परम् ॥