________________
२६
षडशीतिनामा चतुर्थः कर्मग्रन्थः
[ १८७ कम्मे हवइ, सव्वथोवे से आउए कम्मे हवइ, विसमं समं करेइ बंधणेहिं ठिईहि य, विसमसमीकरणयाए बंधणेहिं ठिईहि य एवं खलु केवली समुग्घायं गच्छइ ।। ( पत्र ६०१-१)
__“बंधणेहिं" ति बध्यन्त आत्मप्रदेशैः सदै लोलीभावेन संश्लिष्टाः क्रियन्ते योगवशाद् ये ते बन्धनाः, "भुजिपत्यादिभ्यः कर्मापादाने" (सि० ५-३--१२८) इति कर्मण्यनट् , कर्मपरमाणवः, स्थितयः--वेदनाकालाः, शेषं सुगमम् । उक्तं च--
- आयुषि समाप्यमाने, शेषाणां कर्मणां यदि समाप्तिः ।
न स्यात् स्थितिवैषम्याद् , गच्छति स ततः समुद्घातम् ॥ स्थित्या च बन्धनेन च, समीक्रियार्थ हि कर्मणां तेषाम् ।
अन्तमुहूर्तशेषे, तदायुषि समुजिघांसति सः ॥ अथ सर्वेऽपि केवलिनः समुद्घातं गच्छन्ति न वा ? इति चेद् , उच्यते-यस्य केवलिन आयुषा सह वेदनीयनामगोत्राणि समस्थितिकानि भवन्ति स हि न केवलिसमुद्घातं करोति, शेषस्तु करोति । उक्तं च श्रीमदार्यश्यामपादेः
'सव्वे वि णं भंते ! केवली समुग्यायं गच्छति ? गोयमा ! नो इणट्टे समझे । जस्साउएण तुल्लाई, बंधणेहिं ठिईहि य । भवोवग्गाहिकम्माई, समुग्घायं से न गच्छइ ।। अगंतूर्ण समुग्घायं, अणंता केवली जिणा । जरमरणविप्पमुक्का, सिद्धिं वरगई गया ।
(पत्र० ६०१-१) समुद्घातं च कुर्वन् केवली प्रथमसमये बाहुल्यतः स्वशरीरप्रमाणमूर्ध्वमधश्च लोकान्तपर्यन्तमात्मप्रदेशानां सङ्घातदण्डं दण्डस्थानीयं ज्ञानाभोगतः करोति, द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्वतो लोकान्तगामिकपाटमिव कपाटं करोति, तृतीयसमये तमेव कपाट दक्षिणोत्तरदिग्द्वयप्रसारणाद् मन्थसदृशं मन्थानं करोति लोकान्तप्रापिणमेव । एवं च लोकस्य प्रायो बहु पूरितं मन्थान्तराण्यपूरितानि भवन्ति, अनुश्रेणि गमनात् , चतुर्थे तु समये तान्यपि मन्थान्तराणि सह लोकनिष्कुटैः पूरयति, ततश्च सकलो लोकः पूरितो भवतीति । तदनन्तरमेव पञ्चमे समये यथोक्तक्रमात् प्रतिलोमं मन्थान्तराणि संहरति जीवप्रदेशान् सकर्मकान् सङ्कोचयति, षष्ठे समये मन्थानमुपसंहरति घनतरसङ्कोचना , सप्तमे समये कपाटमुपसंहरति
१ सर्वेऽपि भदन्त ! केवलिनः समुद्घातं गच्छन्ति ? गौतम ! नायमर्थः समर्थः । यस्याऽऽयुषा तुल्यानि बन्धनैः स्थितिभिश्च । भवोपमाहिकर्माणि समुद्घातं स न गच्छति॥ भगत्वा समुद्घातमनन्ताः केवलिनो जिनाः । बरामरणविप्रमुक्ताः सिद्धिं वरगतिं गताः॥२ ०णमठे क० ख० घ० ० ॥