________________
१८६
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[गाथा तन्मिश्रसहिताः सन्त एकादश योगा भवन्ति, देशविरतानामम्बडादीनां वैक्रियलब्धिमतां वैक्रियद्विकसम्भवात् । तथा त एव नव पूर्वोक्ताः 'सकार्मणौदारिकमिश्राः' सह कार्मणौदारिकमिश्राभ्यां वर्तन्त इति सकार्मणौदारिकमिश्राः सन्त एकादश योगा यथाख्यातसंयमे भवन्ति । अयमर्थःमनोयोगचतुष्टयवाग्योगचतुष्टयकामणोदारिकद्विकलक्षणा एकादश योगा यथाख्याते भवन्ति । तत्र मनोवाक्चतुष्कोदारिकयोगाः सुज्ञाना एव । कार्मणमोदारिकमिश्र तु यथाख्यातसंयमश्रीकुलगृहस्य भगवतः केवलिनः सम्भवति, तस्य हि समुद्घातगतस्य तृतीयचतुर्थपञ्चमसमयेषु कार्मणम् , "कार्मणशरीरयोगी चतुर्थक पञ्चमे तृतीये च ।" (प्रश० का० २७७) इति वचनात , द्वितीयषष्ठसप्तमसमयेष्वोदारिकमिश्रम्, “मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥" (प्रश० का० २७६ ) इति वचनाद् अवाप्यत इति यथाख्यातसंयमे द्वयोरपि सम्भवात् ।
। अथ विनेयजनानुग्रहाय केवलिसमुद्घातस्वरूपमभिधीयते-तत्र सम्यग् अपुनर्भावेन उत्प्रावल्येन कर्मणो हननं-घातः प्रलयो यस्मिन् प्रयत्नविशेषे स समुद्घातः । अयं च केवलि. समुद्घातोऽष्टसामयिकः, तं च प्रारभमाणः प्रथममेवाऽऽयोजिकाकरणमान्तमौहर्तिकमुदौरणावलिकायां कर्मप्रक्षेपव्यापाररूपमभ्येति । अथाऽऽयोजिकाकरणमिति कः शब्दार्थः ? उच्यते"आङ मर्यादायाम्" आ-मर्यादया केवलिदृष्टया योजनं-शुभाना योगानां व्यापारणमायो. जिका, 'भावे" (सि० ५-३-१२२ ) णकः, तस्याः करणमायोजिकाकरणम् । आह च--
'कइसमइए णं भंते ! आओजीकरणे पन्नत्ते ! गोयमा ! असंखेज्जसमइए अंतोमुहुत्तिए आओजीकरणे पन्नत्ते ।। (प्रज्ञापनापत्र ६०१-१)
अयं कृतकृत्योऽपि केवली किमर्थ समुद्घातं करोति ? इति चेद् , उच्यते-वेदनीयनामगोत्राणामायुषा सह समीकरणार्थम् । यदाह भगवान् श्रीभद्रबाहुस्वामी
'नाऊण वेयणिज्ज, अइबहुयं आउयं च थोवागं ।
गंतूण समुग्घायं, खवेइ कम्मं निरवसेसं ॥ (आ. नि. गा. ९५४ ) प्रज्ञापनायामप्युक्तम्
कम्हा णं भंते ! केवली समुग्घायं गच्छइ ! गोयमा ! केवलिस्स चत्तारि कम्मंसा अक्खीणा अवेइया अणिजिन्ना भवन्ति । तं जहा-वेयणिज्जे आउए नामे गोए । सव्वबहुए से वेयणिज्जे
१ कतिसामयिक मदन्त ? आयोजिकाकरणं प्रज्ञप्तम् ? गौतम ? असङ्ख्य यसामयिकमान्तमौहूर्तिकम् आयोजिकाकरणं प्रज्ञप्तम् ।। २ ज्ञात्वा वेदनीयं अतिबहुकं भायुष्कं च स्तोकम् । गत्वा समुद्घातं क्षपयति कर्म निरवशेषम ॥ ३ कस्माद् मदन्त ? केवनी समुद्घातं गच्छति ? गौतम ? केवलिनश्चत्वारः कर्माशा अक्षीणा भवेदिता भनिर्जीर्णा भवन्ति । तद्यथा--वेदनीयं आयुष्कं नाम गोत्रम् । सर्वबहुकं तस्य वेदनीयं कर्म भवति, सर्वस्तोकं तस्यायुःकर्म भवति, विषमं समं करोति, बन्धनैः स्थितिभिश्च, विषमस्य समकरणाय बन्धनैः स्थितिभिश्च एवं खलु केवली समुद्घातं गच्छति ।।