________________
१८५
२८-२९]
षडशीतिनामा चतुर्थः कर्मग्रन्थः। मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीयेषु ।। (प्रश० का० २७६)
कार्मणशरीरयोगी, चतुर्थक पञ्चमे तृतीये च । (प्रश० का० २७७ ) इति । प्रथमान्तिममनोयोगौ तु अविकलसकलविमलकेवलज्ञानकेवलदर्शनबलावलोकितनिखिललोकालोकस्य भगवतो मनःपर्यायज्ञानिभिरनुत्तरसुरादिभिर्वा मनसा पृष्टस्य सतो मनसैव देशनात् । ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि मनःपर्यायज्ञानेनाऽवधिज्ञानेन वा पश्यन्ति, दृष्ट्वा च ते विवक्षितवस्त्वालोचनाकारान्यथानुपपत्त्या लोकस्वरूपादिकं बाह्यमर्थ पृष्टमवगच्छन्ति । प्रथमान्तिमवाग्योगो तु देशनादिषु व्यापृतस्य तस्यैव भगवतो द्रष्टव्याविति ॥ २८॥
मणवहउरला परिहारि मुहुमि नव ते उ मोसि सविउव्वा ।
देसे सविउव्विदुगा, सकम्मुरलमिस्स अहखाए ॥२९॥ “परिहारविशुद्धिके सूक्ष्मसम्पराये च नव योगाः । के ते ? इत्याह-मनोयोगश्चतुर्धा वाग्योगचतुर्धा औदारिकं चेति । यत्त्वाहारकद्विकं वैक्रियद्विकं कार्मणमौदारिकमिश्रं च तद् न सम्भवत्येव । तथाहि-आहारकद्विकं चतुर्दशपूर्ववेदिन एव भवति, " 'आहारं चउदसपुव्विणो" इति वचनात् ; परिहारविशुद्धिकसंयमप्रतिपत्तिः पुनरुत्कर्षतोऽप्यधीतकिश्चिन्यूनदशपूर्वस्यैव, तथैव सिद्धान्तेऽभ्यनुज्ञानात् ; तत् कथं परिहारविशुद्धिकस्याऽऽहारकद्विकसम्भवः ? | नापि तस्य वैक्रियद्विकसम्भवः, तस्यामवस्थायां तत्करणाननुज्ञानात् , जिनकल्पिकस्येव तस्याऽप्यत्यन्तविशुद्धाप्रमादमूलसंयमघोरानुष्ठानपरायणत्वात्, वैक्रियारम्भे च लब्ध्युपजीवनेन औत्सुक्यभावात प्रमादसम्भवात् । अत एव सूक्ष्मसम्परायसंयमेऽप्याहारकद्विकवैक्रियद्विकलक्षणानां चतुर्णा योगानामसम्भवः, सूक्ष्मसम्परायसंयमोपेतस्याऽप्यत्यन्तविशुद्धतया निस्तरङ्गमहोदधिकल्पत्वेन वैक्रियादिप्रारम्भासम्भवात् । कार्मणमौदारिकमिश्र चापर्याप्ताद्यवस्थायामेवेति संयमद्वयेऽपि तस्याऽभावः । ते पुनः पूर्वोक्ता नव योगाः 'सबैक्रिया' सह वैक्रियेण वर्तन्त इति सवैक्रिया वैक्रियसहिताः सन्तो दश योगाः 'मिश्री' सम्यग्मिथ्यादृष्टौ भवन्ति । तत्र वैक्रियं देवनारकापेक्षया, यत्तु वैक्रियमिश्रं तद् नैवावाप्यते, तस्याऽपर्याप्तावस्थामावित्वात् , मिश्रभावस्य च " न सम्मामच्छो कुणइ कालं" इति वचनप्रामाण्याद् अपर्याप्तावस्थायामसम्भवात् ।
- स्यादेतद्-बैंक्रियलब्धिमतां मनुष्यतिरश्चा सम्यग्मिथ्यादा सतां वैक्रियारम्भसम्भवेन कथं वैक्रियमिश्र' नावाप्यते ? इति, उच्यते-तेषां वैक्रियारम्भासम्भवात् , अन्यतो वा कुतश्चित् कारणात् पूर्वाचार्यैस्तद् नाभ्युपगम्यत इति न सम्यगवगच्छामः/ तथाविधसम्प्रदायाभावात् , अतोऽस्माभिरपि तद् नेष्टमिति । 'देशे' देशविरते त एव नव पूर्वोक्ताः 'सवैक्रियद्विकाः' वैक्रिय
१ आहारकं चतुर्दश-पूर्विणः ॥ २ न सम्यग्मिध्यादृष्टिः करोति काल ।।