________________
२६-२७ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः
औदारिकद्विकेन - औदारिकौदारिकमिश्रलक्षणेन ऊना:- हीना एकादश योगाः 'सुरे' सुरगतौ 'नरके' नरकगतौ भवन्ति । तथा हि- मनोवाग्योगचतुष्टय वैक्रियवै क्रियमिश्रकार्मणलक्षणा एकादश योगाः सुरेषु नारकेषु च घटन्ते । तत्र कार्मणमप न्तरालगतावुत्पत्तिप्रथमसमय एव, वैक्रियमिश्रमपर्याप्तावस्थायाम्, पर्याप्तवस्थायां तु वैक्रियं मनोवाग्योगचतुष्टयं च । यत् पुनरौदारिकद्विकं तद् भवप्रत्ययादेव देवनारकाणां न सम्भवति । आहारकद्विकं तु सुरनारकाणां भवस्वभावतया विरत्यभावेन सर्वविरतिप्रत्ययचतुर्दशपूर्वाधिगमासम्भवादेव' दूरापास्तमिति || २६ ॥ कम्मुरलदुगं थावरि, ते सविउच्चिदुग पंच इगि पवणे ।
छ अनि चरमवइजुय, ते विउविदुगूण चउ विगले ।। २७ ।।
१८३
कार्मणम् 'औदारिकद्विकम्' औहारिकौदारिक मिश्रलक्षणमिति त्रयो योगाः । का ? इत्याह"थावरि" त्ति स्थावरकाये - पृथिव्यप्तेजोवनस्पतिकायरूपे वायुकायिकस्य पृथग् भणिष्यमाणत्वात् । अयमत्र भावः---स्थावरचतुष्के 'कार्मणौदारिकद्विकरूपास्त्रयो योगा कार्मणमपान्तरालगतावुत्पत्तिप्रथमसमये वा, औदारिकमिश्र ं तु अपर्याप्तावस्थायाम्, पर्याप्तावस्थायां पुनरौदारिकमिति । 'ते' पूर्वोक्तास्त्रयो योगाः सवैक्रियद्विकाः' सह वैक्रियद्विकेन- वैक्रियवैक्रियनिलक्षणेन वर्तन्त इति सवैक्रियद्विकाः सन्तः पञ्च भवन्ति । व १ इत्याह--- "गि " त्ति सामान्यत एकेन्द्रिये 'पवने' वायुकाये च । तत्र कार्मणौदारिकद्विकलक्षणयोगत्रयभाव प्राग्वत् । / वैक्रियद्विकभावना त्वेवम्---इह किल चतुर्विधा वायवो वान्ति । तद्यथा - - सूक्ष्मा अपर्याप्ताः १ सूक्ष्मः पर्याप्ताः २ बादरा अपर्याप्ताः ३ बादराः पर्याप्ताथ ४ । तत्र बादरपर्यासानां केषाञ्चिद् वैक्रियलब्धिसम्भवोऽस्ति तानधिकृत्य वैक्रियमिश्रं वैक्रियं च लभ्यते ।
ननु कथमुच्यते केपाश्चिद् वैक्रियलब्धिसम्भवोऽस्ति १ यावता सर्वेऽपि बादरपर्याप्तवायवः सवैक्रिया एव, अवैक्रियाणां चेष्टाया एवाप्रवृत्तेः । उक्तं च
'केइ भांति - सव्वे वेउब्विया वाया वायंति, अवेउन्विश्याणं चिट्ठा चैव न पवतइ । ( अनु० चू० पत्र ६७, अनु० हा० टी० पत्र ६२ ) इति । `तद् अयुक्तम्, सम्यक् सिद्धान्तापरिज्ञानात्, अवैक्रियाणामपि तेषां स्वभावत एव चेष्टोपपत्तेः । यदाह भगवान् श्रीहरिभद्रसूरिरनुयोगद्वारटीकायाम्
'वाउक्वाइया चउव्विहा - सुहुमा पत्ता अपजत्ता, बादरा वि य पज्जत्ता अपज्जत्ता । तत्थ तिन्निरासी पत्तेयं असंखेज्ज लोगप्पमाणप्पएसरासिपमाणमित्ता, जे पुण बादरा पज्जत्ता ते पय
१ केचिद्भणन्ति-सर्वे वैकुर्विका बाता वान्ति, अवैक्रियाणां चेष्टव न प्रवर्त्तते ।। २ व्याणं वाणं चे अनुयोगद्वार चूर्णिल घुटीकयोः । ३ वायुकायिका चतुर्विधाः सूक्ष्माः पर्याप्ताः । १ अपर्याप्ताः २, बादरा