________________
९८२
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा ध्यवाग्योगचतुष्टयौदारिकौदारिकमिश्रय क्रियक्रियमिश्रकार्मणलक्षणा योगा भवन्ति । तत्र कार्मणमपान्तरालगतौ उत्पत्तिप्रथमसमय एव, औदारिकमिश्रमपर्याप्तावस्थायाम् , पर्याप्तावस्थायामौदारिकं मनोवाग्योगचतुष्टयं च । तथा तिरश्चापि केषाश्चिद् वैक्रियलब्धियोगतो वैक्रियमित्रं वैक्रियं च घटत एव । यत्तु आहारकद्विकम्-आहारकाहारकमिश्रलक्षणं तद् न सम्भवत्येव, तिरश्चा तत्र सर्वविरत्यसम्भवातः सर्वविरतस्य हि चतुर्दशपूर्ववेदिन आहारकद्विकं सम्भवति, " 'आहारं चउदसपुब्विणो" इत्यादिवचनप्रामाण्यादिति । तथा इह स्त्रीवेदो द्रव्यरूपो द्रष्टव्यः, न तु तथारूपाध्यवसायलक्षणो भावरूपः, तथाविवक्षणात् । एवमुपयोगमार्गणायामपि द्रष्टव्यम् । प्राक् च गुणस्थानकमार्गणायां सर्वोऽपि वेदो भावस्वरूपो गृहीतः, तथाविवक्षणादेव, अन्यथा तेषु प्रोक्तगुणस्थानकसङ्ख्याऽयोगात्सयोगिकेवल्यादावपिद्रव्यवेदस्य भावात् , द्रव्यवेदश्च बाह्यमाकारमात्रम् । ततः स्त्रीषु त्रयोदश योगा आहारकद्विकोना भवन्ति, न पुनराहारकद्विकमपि, यत आहारकद्विकं चतुर्दशपूर्वविद एव भवति, " आहारकदुगं जायइ चउदसपुग्विणो" इति वच. नात् । न च स्त्रीणां चतुर्दशपूर्वाधिगमोऽस्ति, स्त्रीणामागमे दृष्टिवादाध्ययनप्रतिषेधात् । यदाह भाष्यसुधासुधांशुः
"तुच्छा गारवबहुला, चलिंदिया दुबला धिईए य ।
इय अइसेसज्झयणा, भूयावादो य नो थीणं ।। ( विशेषा० गा० ५५२) इति । 'भूतवादः' दृष्टिवादः । तथा अयते सास्वादने अज्ञानत्रिके च त्रयोदश योगा आहारकद्विकोना भवन्ति । आहारकद्विकं पुनरेतेष्वज्ञानत्वादेव दूरापास्तम् । तथा औपशमिकसम्यक्त्वे आहारकद्विकोनास्त्रयोदश योगाः, आहारकं त्वत्रापि न घटामियति, यत औपशमिकसम्यक्त्वं प्रथमसम्यक्त्वोत्पादकाले उमशमश्रेण्यारोहे वा भवति । न च प्रथमसम्यक्त्वोत्पादकाले चतुर्दशपूर्वाधिगमसम्भवः, तदभावाच कथमाहारकद्विकभावः प्रादुर्भावपदवीमियति ? । उपशमश्रेण्यारूढस्त्वाहारकं नारभत एव, तस्याऽप्रमत्तत्वात् , आहारकारम्भकस्य तु लब्ध्युपजीवनेन औत्सुक्यभावतः प्रमादबहुलत्वात् । उक्तं च--
आहारगं तु पमत्तो उप्पाएइ न अप्पमत्तो इति । . आहारकस्थितश्योपशमश्रेणि नारभत एव, तथास्वमावत्वादिप्ति । तथा अभव्ये मिथ्यात्वे च चतुर्दशपूर्वाधिगमाभावादेव आहारकद्विकवर्जास्त्रयोदश योगाः । त एव पूर्वोक्तास्त्रयोदश योगा ... १ आहारक चतुर्दशपूर्विणः ॥ २ आहारकद्विकं जायते चतुर्दशपूर्विणः ।। ३ तुच्छा गौरवबहुलाचलेन्द्रिया दुर्बला धृत्या च इति अतिशायीन्यध्ययनानि भूतवादश्च न स्त्रीणाम् ।। ४ आहारकं तु प्रमत्त उत्पादयति नाप्रमत्तः॥