________________
२४-२६ ]
षडशीतिनमा चतुर्थः कर्मग्रन्थः ।
नग्ग पणिदि तस तणु, अचक्खु नर नपु कसाय सम्मदुगे । सन्नि छलेसाहारग, भव्य मह सुओहिदुगि सव्वे ।। २५ ।। 'नरगतौ' मनुष्यगतौ पञ्चेन्द्रिये 'त्रसे' त्रसकाये तनुयोगे अचक्षुर्दर्शने 'नरे' नरवेदे पुवेद इत्यर्थ: "नपु"त्ति नपुंसकवेदे 'कपायेषु' क्रोधमानमायालो भेषु 'सम्यक्त्वद्विके' क्षायोपशमिकक्षायिकलक्षणे 'संज्ञिनि' मनोविज्ञानभाजि षट्स्वपि लेश्यासु आहार के भव्ये 'मतौ' मतिज्ञाने 'ते' श्रुतज्ञाने 'अवधि के अवधिज्ञानाऽवधिदर्शनरूपे 'सर्वे' पञ्चदशापि योगा भवन्ति, एतेषु सर्वेष्वपि मार्गणास्थानेषु यथासम्भवं सर्वयोगप्राप्तेः । यत्तु क्वापि ""जोगा अक्रम्मगाहारगेसु" इति पदं दृश्यते तद् न सम्यगवगम्यते, यत ऋजुगतौ विग्रहगतौ चोत्पत्तिप्रथमसमये जोएण कम्मएणं, आहारेई अनंतरं जीवो । तेण परं मी सेणं, जाव सरीरस्स निष्पत्ती ॥
१८१
इति सकल श्रुतधरप्रवरपरममुनिवचनप्रामाण्याद् आहारकस्यापि सतः कार्मणकाययोगोऽस्त्येव । अथ उच्येत गृह्यमाणं गृहीतमिति निश्चयनयवशात् प्रथमसमयेऽप्यौदारिकपुद्गला गृह्यमाणा गृहीता एव ततो द्वितीयादिसमयेष्विव तदानीमप्यौदारिकमिश्रकाययोग इति, तदेतद् अयुक्तम्, सम्यग्वस्तुतच्चापरिज्ञानात्, यतो यद्यपि तदानीमौदारिकादिषु पुद्गला गृह्यमाणा गृहीता एव तथापि न तेषां गृह्यमाणानां स्वग्रहणक्रियां प्रति करणरूपता येन तन्निबन्धनो योगः परिकल्प्येत, किन्तु कर्मरूपतैव, निष्पन्नरूपस्य सत उत्तरकालं करणभावदर्शनात् । नहि घटः स्वनिष्पादन क्रियां प्रति कर्मरूपतां करणरूपतां च प्रतिपद्यमानो दृश्यते, द्वितीयादिसमयेषु पुनस्तेषामपि प्रथमसमयगृहीतानामन्यपुद्गलोपादानं प्रति करणभावो न विरुध्यते निष्पन्नत्वात् ; अतस्तदानीमौदारिकमिश्रकाययोग उपपद्यत एव । अत एवोक्तम् - " तेण परं मीसेणं" इति । तस्माद् अस्त्याहारकस्याप्युत्पत्तिप्रथमसमये कार्मणकाययोग इति । अतः 'जोगा अकम्मगाहारगेसु" इति पदं चिन्त्यमस्तीति ॥ २५ ॥
66
तिरि इत्थि अजय सासण, अनाण उवसम अभव्व मिच्छेसु । तेराहारदुगूणा, ते उरलदुगूण सुरनरए || २६ ।।
" तिरि" ति तिर्यग्गतौ स्त्रियां' स्त्रीवेदे 'अयते' विरतिहीने सास्वादनसम्यक्त्वे " अनाण' ति अज्ञान त्रिके - मत्यज्ञानश्रुताज्ञानविभङ्गलक्षणे 'उपशमे' औपशमिकसम्यक्त्वे 'अभव्येषु' सिद्धिगमनानुचितेषु 'मिथ्यात्वे' मिथ्यादृष्टिषु त्रयोदश योगा भवन्ति । के १ इत्याह- आहारकद्विकेन1 आहारकाहारकमिश्रलक्षणेन ऊना: -- हीना आहारकद्विकोनाः । अयमत्राशयः - मनोयोगचतु
१ योगाः अकार्मणा आहारकेषु ॥ २ प्राग्वत् ॥