________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा
मिश्रश्चासौ कायश्च तेन योग औदारिक मिश्रकाययोगः ६ । तथा कर्मणो विकारः कार्मणम्, “विकारे” (सि० ६-२-३०) अण्प्रत्ययः, यद्वा कर्मैव कार्मणम्, “प्रज्ञादिभ्योऽण" ( सि० ७-२-१६५ ) [ इत्यण ]प्रत्ययः, कर्मपरमाणव एवात्मप्रदेशैः सह क्षीरनीरवद् अन्योन्यानुगताः सन्तः कार्मणं शरीरम् । उक्तं च-
१८०
'कम्मविगारो कम्मणमदुविहविचित्तकम्मनिष्फन्नं ।
सव्वे सरीराणं, कारण भूयं मुणेयव्त्रं (अनु. हा. टी. पत्र ८७ )
अत्र “सव्वेसि” इति सर्वेषामौदा रिकादीनां शरीराणां कारणभूतं - बीजभूतं कार्मणशरीरम्, न खल्वालमुच्छिन्न भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावसम्भवः ।
इदं च कार्मणशरीरं जन्तोर्गत्यन्तरसङ्क्रान्तौ साधकतमं करणम् । तथाहि - कार्मणेनैव वपुषा परिकरितो जन्तुर्भरण देश मपहायोत्पत्तिदेशमुपसर्पति ।
ननु यदि कार्मणवपुः परिकरितो गत्यन्तरं सङ्क्रामति तर्हि गच्छन् कस्मात् नोपलक्ष्यते ? [उच्यते-] कर्मपुद्गलानामतिमतया चक्षुरादीन्द्रियागोचरत्वात् । आह च प्रज्ञाकर गुप्तोऽपि - अन्तरा भवदेहोऽपि सुक्ष्मत्वान्नोपलक्ष्यते ।
निष्क्रामन् प्रविशन् वाऽपि नाभावोऽनीक्षणादपि ॥
कार्मणमेव कायस्तेन योगः कार्मणकाययोगः ७ | "इय जोग" त्ति 'इति' परिसमाप्तौ । ततोऽयमर्थः - एत एव योगा नान्य इति ।
ननु तैजसमपि शरीरं विद्यते, यद् भुक्ताहारपरिणमनहेतुर्यद्वशाद् विशिष्टतपोविशेषसमुत्थलब्धिविशेषस्य पुरुषस्य तेजोलेश्याविनिर्गमः, तत् कथमुच्यते एत एव योगा नान्ये १ इति, नैप दोषः, सदा कार्मणेन सहाऽव्यभिचारितया तेजसस्य तद्ग्रहणेनैव गृहीतत्वादिति ।
?
निरूपिताः स्वरूपतो योगाः । साम्प्रतमेतानेव मार्गणास्थानेषु निरूपयन्नाह - "कम्ममणहारि" त्ति व्यवच्छेदफलं हि वाक्यम्, अतोऽवश्यमवधारयितव्यम् । तच्चावधारणमिहैवम्कार्मणमेवैकमनाहारके न शेषयोगाः, असम्भवादिति । न पुनरेवम् - कार्मणमनाहारकेष्वेवेति, आहारकेष्वपि उत्पत्तिप्रथमसमये कार्मणयोगसम्भवात्, " जोएण कम्मएणं, आहारेई अनंतरं जीवो ।" इति परममुनिवचनप्रामाण्यात् । नापि 'कार्मणमनाहारकेषु भवत्येव' इत्यवधारणमाथेयम्, अयोगिकेवल्यवस्थायामनाहारकस्यापि कार्मणकाययोगाभावात्, " " गयजोगो उ अजोगी" इति वचनात् । एवमन्यत्रापि यथासम्भवमवधारणविधिरनुसरणीय इति ॥ २४ ॥
१ कर्मविकारः कामणमष्टविघविचित्रकर्मनिष्पन्नम् । सर्वेषां शरीराणां कारणभूतं ज्ञातव्यम् ॥। २ योगेन कार्मणेनाहारयत्यनन्तरं जीवः ॥ ३ गतयोगस्त्वयोगी ॥