________________
१७६
षडशीतिनामा चतुर्थः कर्मग्रन्थः। वा, 'जं भणियं होइ, कहं ? साइरेगजोयणसहस्समवट्ठियप्पमाणमोरालियं, अन्नमिद्दहमित्तं नत्थि, वेउव्वियं हुज लक्खमहियं, अवट्ठियं पंचधणु सयाई अहे सत्तमाए, इत्थं पुण अवट्ठियपमाणं अइरेगं जोयणसहस्सं वनस्पत्यादीनामिति । उरलं नाम स्वल्पप्रदेशोपचितत्वाद् बृहत्त्वाच भिण्डवत् । ओरालं नाम मांसास्थिस्नायवाद्यवयवबद्धत्वात् । ( 'अनु. हा. टी. पत्र ८७ ) श्रीपूज्या अप्याहुः
"तत्थोदारमुरालं, ओरालमहव महल्लगत्तेण । ओरालियं ति पढमं, पडुच्च तित्थेसरसरीरं ॥ भण्णइ य तहोरालं, वित्थरवंतं वणस्सति पप्प । ‘पयईइ नत्थि अन्नं, इद्दहमित्तं विसालं ति ॥ उरलं थेवपएसोवचियं पि महल्लगं जहा भिंडं ।
मंसट्टिहारुबद्धं, ओरालं समयपरिभासा ।। (अनु. हा. टी. पत्र ८७) सर्वत्र स्वार्थिक इकप्रत्ययः, उदारमेव उरालमेव उरलमेव ओरालमेव औदारिकम् , पृषोदरादित्वाद् इष्टरूपनिष्पत्तिः, औदारिकमेव चीयमानत्वात् कायः, तेन सहकारिकारणभूतेन तद्विषयो वा योग औदारिककाययोगः ५ । तथा औदारिक मिश्रं यत्र' कार्मणेनेति गम्यते स औदारिकमिश्रः, उत्पत्तिदेशे हि पूर्वभवादनन्तरमागतो जीवः प्रथमसमये कामणेनैव केवलेनाऽऽहारयति, ततः परमौदारिकस्याऽप्यारब्धत्वाद् औदारिकेण कार्मणमिश्रेण यावत् शरीरनिष्पत्तिः । यदाह सकलश्रुताम्भोनिधिपारदृश्वा विश्वानुग्रहकाम्यया निर्मितानेकशास्त्रसन्दर्भः श्रीभद्रपाहुस्वामी
__ जोएण कम्मएणं, आहारेई अणंतरं जीवो ।
तेण परं मीसेणं, जाव सरीरस्स निष्फत्ती ॥ केवलिसमुद्घातावस्थायां तु द्वितीयषष्ठसप्तमसमयेषु कार्मणेन मिश्रमौदारिकं प्रतीतमेव, "मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥” (प्रश० का० २७६) इति वचनात् , औदारिक
१ यदु भणितं भवति, कथं सातिरेकयोजनसहस्रमवस्थितप्रमाणमौदारिकम् , अन्यदेतावन्मात्रं नास्ति, वैक्रियं भवेद् लक्षाधिकम् , अवस्थितं पञ्च धनुःशतानि अध; समम्यम्, अत्र पुनः अवस्थितप्रमाणं सातिरेक योजनसहस्रम् ।।२०सतं, इमं पु० अनुयोगद्वारचूर्णिलघुवृत्त्योः ॥ ३ ओरलियं अनुयोगद्वारचूौँ ।। ४ समग्रोऽप्येष पाठः अनुयोगद्वारचूर्णावपि पत्र ६०-६१ तमेऽस्ति ॥ तत्रोदारमरालं ओरलमर्थवा महत्तया। औदारिकमिति प्रथम प्रतीत्य तीर्थेश्वरशरीरम् ।। मण्यते च तथोरालं विस्तारवद् वनस्पति प्राध्य । प्रकृत्या नास्त्यन्यद् एतावमात्र विशालमिति ॥ उरलं स्तोकप्रदेशोपचितमपि महद्यथा भिण्डम् । मासास्थिस्नायुबद्धमोरालं समयपरिमाषा ॥६०रालं उरलं ओरालमहव विष्णेयं । इति अनुयोगद्वारलघु. वृत्तौ पाठः ।। ७ योगेन कार्मणेनाहारयत्यनन्तरं जीवः । ततः परं मिश्रेण यावच्छरीरस्य निष्पत्तिः ॥ .