________________
" । १५५
१७८ देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा लब्धिप्रत्ययं तिर्यङमनुष्याणाम् । उक्तं च श्रीमदनुयोगद्वारलघुवृत्तौ--
___ 'विविहा विसिट्ठगा वा, किरिया तीए अ जं भवं तमिह ।
८ नियमा विउव्वियं पुण, नारगदेवाण पयईए ॥ ( पत्र. ८७ ) तदेव काययोगस्तन्मयो वा योगो वैक्रिययोगो वैकुर्विककाययोगो वा १ । वैक्रियं मिश्रं यत्र कार्मणेन औदारिकेण वा स वैक्रियमिश्रः, तत्र कार्मणेन मिश्रं देवनारकाणामपर्याप्तावस्थायां प्रथमसमयादनन्तरम् , बादरपर्याप्तकवायोः पञ्वेन्द्रियतिर्यङ्मनुष्याणां च वैक्रियलब्धिमतां वक्रियारम्भकाले बैंक्रियपरित्यागकाले वा औदारिकेण मिश्रम् , ततो वैक्रियमिश्रश्चासौ कायश्च वैक्रियमिश्रकायस्तेन योगो वैक्रियमिश्रकाययोगः २ । चतुर्दशपूर्वविदा तथाविधकार्योत्पत्तौ विशिष्टलब्धिवशाद् आहियते निर्वर्त्यत इत्याहारकम् , अथवाऽऽहियन्ते गृह्यन्ते तीर्थकरादिसमीपे सूक्ष्मा जीवादयः पदार्था अनेनेत्याहारकम् । “कृद्धहुलं" ( बहुलम् सि० ५.१-२ ) इति कर्मणि करणे वा णकः । यदवादि
"कजम्मि समुप्पन्ने, सुयकेवलिणा विसिट्ठलद्धीए । जं इत्थ आहरिजइ, भणंति आहारगं तं तु ॥ ( अनु. हा. टी. पत्र ८७) पाणिदयरिद्धिसंदरिसणथमत्थोवगहणहेउं वा । संसयवुच्छेयत्थं, गमणं जिणपायमूलम्मि ॥..
(अनु. चू. पत्र ६१, अनु. हा. टी. पत्र ८७) सदेव कायस्तेन योग आहारककाययोगः ३ । आहारकं मिश्रं यत्र औदारिकेणेति गम्यते स आहारकमिश्रः, सिद्धप्रयोजनस्य चतुर्दशपूर्वविद आहारकं परित्यजत औदारिकमुपाददानस्य आहारकं प्रारभमाणस्य वा प्राप्यते, स एव कायस्तेन योग आहारकमिश्रकाययोगः ४ । तथा औदारिककाययोगः, इह प्रसिद्धसिद्धान्तसन्दोहविवरणप्रकरणप्रमाणग्रन्थग्रथनावाप्तसुधांशुधामधवलयशःप्रसरधवलितसकलवसुन्धरावलयप्रभुश्रीहरिभद्रसूरिदर्शिता व्युत्पत्तिर्लिख्यते
"तत्थ ताव उदार उराले "उरलं ओरालं वा । तित्थगरगणधरसरीराइं पडुच उदारं दुचह, न तओ उदारतरमन्नमत्थि त्ति का, उदारं नाम प्रधानम् । उरालं नाम विस्तरालं विशालमिति १ विविधा विशिष्टा वा क्रिया तस्यां च यद् भवं तदिह । नियमाद् वैकुर्विकं पुनः नारकदेवानां प्रकृत्वा ॥ २०या विकिरिय तीए जं तमिह । अनुयोगद्वारलघुवृत्तौ ।। ३ कार्ये समुत्पन्ने श्रुतकेवलिना विशिष्टउन्ध्या । यदत्राहियते भणन्ति आहारक नत् तु ॥ प्राणियर्द्धिसन्दर्शनार्थमर्थावग्रहणहेतुर्वा । संशयव्युच्छे. दार्थ गमनं जिनपादमूले ॥ ४ तत्र तावदुदारमुरालमुरलमोललं वा । तीर्थकरगणधरशरीराणि प्रतीत्योदारमुच्यते, न तत उदारतरमन्यदस्तीति कृत्वा ।। ५ ओरालं ओरालियं अनुयोगद्वारौं , ६ का उदारं । उदा० अनुयोगद्वारचूणौ ॥