________________
२३-२४]
षडशीतिनामा चतुर्थः कर्मग्रन्थः। सद्भावाद् असत्य इति सत्यासत्यमनोयोग इति, व्यवहारनयमतापेक्षया चैवमुच्यते, परमार्थतः पुनरयमसत्य एव यथाविकल्पितार्थायोगात् ३ । न विद्यते सत्यं यत्र सोऽसत्यः, न विद्यते मृषा यत्र सोऽमृपः, असत्यश्चासावमृपश्च "क्तं ननादिभिन्नैः” (सि० ३-१-१०५) इति कर्मधारयः, असत्यामृषश्चासौ मनोयोगश्च असत्यामृषमनोयोगः ४ । इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञ. मतानुसारेण यद् विकल्प्यते, यथाऽस्ति जीवः सदसा इत्यादि, तत् किल सत्यं परिभाषितम् आराधकत्वात् । यत्त विप्रतिपत्तो सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञमतोत्तीर्ण किञ्चिद् विकल्प्यते, यथा नास्ति जीव एकान्तनित्यो वेत्यादि, तद् असत्यमिति परिभाषितं विराधकत्वात् । यत् पुनर्वस्तुप्रतिष्ठाशामन्तरेण स्वरूपमात्रप्रतिपादनपरं व्यवहारपतितं किश्चिद् विकल्प्यते' यथा हे देवदत्त ! घटमानय गां देहि मह्यमित्यादि, तद् एतत् स्वरूपमात्रप्रतिपादनं व्यावहारिक विकल्पज्ञानम् । न यथोक्तलक्षणं सत्यं नापि मृत्यसत्यामृषमनोयोग इति व्याख्यातश्चतुर्धा मनोयोगः । “वइ" त्ति वाग्योगोऽपि चतुर्धा द्रष्टव्यः, तथाहि--सत्यवाग्योगः १ असत्यवाग्योगः २ सत्यासत्य. वाग्योगः ३ असत्यामृषधाग्योगः ४ । तत्र सतां हिता सत्या, सत्या चासौ वाक् च सत्यवाक् , तया सहकारिकारणभूतया योगो [सन्यवाग्योगः, अथवा वचनगतं सत्यत्वं तत्कार्यत्वाद् योगेऽप्युपचर्यते, ततश्च सत्यश्वासो वाग्योगश्च सत्यवाग्योगः, भावार्थः सत्यमनोयोगवद् वाच्यः १ । असत्या-सत्याद् विपरीता सा चासौ वाक् चाऽसत्यवाक् तया योगोऽसत्यवाग्योगः २ । तथा सत्या चासावसत्या चेत्यादि पूर्ववत् कर्मधारयो बहुव्रीहिर्वा, सा चासो वाक् च सत्यासत्यवाक् , तत्प्रत्ययो योगः सत्यासत्यवाग्योगः ३ । न विद्यते सत्यं यत्र सोऽसत्यः, न विद्यते मृषा यत्र सोऽमृषः, असत्यश्वासावमृपश्चासत्यामृषः, स चासौ वाग्योगच असत्यामृपवाग्योगः, शेषं मनोयोगवत् सर्व वाच्यम् ४ । अत्र तृतीयचतुर्थी मनोयोगौ वाग्योगौ च परिस्थूरव्यवहारनयमतेन द्रष्टव्यौ । निश्चयनयमतेन तु मनोज्ञानं वचनं वा सर्वमदुष्ट विवक्षापूर्वकं सत्यम् , अज्ञानादिपिताशयपूर्वकं त्वसत्यम् , उभयानुभयरूपं तु नास्त्येव सत्यासत्यराशिद्वयेऽन्तर्भावादिति भावनीयम् । तथा काययोगः सप्तधा-बै क्रियकाययोग आहारककाययोगः "उरल" त्ति औदारिककाययोगः "मीस" त्ति मिश्रशब्दस्य पूर्वदर्शितशरीरत्रिकेण सह सम्बन्धाद् वैक्रियमिश्रकाययोग आहारकमिश्रकाययोग औदारिकमिश्रकाययोगः "कम्मण" त्ति कार्मणकाययोग इत्यक्षरार्थः । भावार्थस्त्वयम्-विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां भवं वैक्रियम् । तथाहितदेकं भूत्वाऽनेकं भवति, अनेकं भूत्वकम् अणु भूत्वा महद् भवति, महद् भूत्वाऽणु, तथा खचरं भूत्वा भूमिचरं भवति, भूमिचरं भूत्वा खचरम् , अदृश्यं भूत्वा दृश्यं भवति, दृश्यं भूत्वाऽदृश्यमित्यादि । यद्वा विशिष्टं कुन्ति तदिनि वैकुर्विकम् , पृषोदरादित्वाद् अभीष्टरूपमिद्धिः । तच्च द्विधा--औपपातिक लब्धिप्रत्ययं च । तत्रोपपातिक पपातजन्मनिमित्तम् , तच्च देवनारकाणाम् ,