________________
९७६ ]
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
गाथा
श्रीभगवत्यामयुक्तम्
'सामाइयसंजए णं भंते ! कइलेसास हुआ ? गोयमा ! छ्सु लेसासु होजा, एवं छे ओवट्ठाMarria वि ( ० २५ उ० ७ पत्र ९१३- १ ) इत्यादि ।
"
तथा 'द्वयोः' तेजोलेश्यापद्मलेश्ययोः सप्त गुणस्थानानि भवन्ति, तत्र पट् पूर्वोक्तान्येव सप्तमं त्वप्रमत्तगुणस्थानकम् अप्रमत्तसंयताध्यवसायस्थानापेक्षया मिथ्यादृष्ट्यादीनां प्रमत्तान्तानां तेजोलेश्यापद्मश्ये तारतम्येन जघन्यात्यन्ताविशुद्धि के द्रष्टव्ये । तथा अनाहारके पञ्च गुणस्थानानि भवन्ति । कानि ? इत्याह- 'प्रथमान्तिमद्विकाऽयतानि' इति द्विकशब्दस्य प्रत्येकं योगात् प्रथमद्विकं - मिथ्यादृष्टिसासादनलक्षणम् 'अन्तिमद्विकं -सयोगिकेवल्ययोगिकेवल लक्षणम् 'अयत:' इति अविरतसम्यग्दृष्टिश्वति । तत्र मिथ्यात्वसास्वादनाविस्तसम्यग्दृष्टिलक्षणं गुणस्थानकत्रयमनाहारके विग्रहगतौ प्राप्यते, सयोगिकेवलिगुणस्थानकं त्वनाहारके समुद्वातावस्थायां तृतीयचतुर्थ पञ्चमसमयेषु द्रष्टव्यम् । यदवादि- 'चतुर्थ तृतीयपञ्चमेष्वनाहारकः" इति । अयोगिकेवल्यवस्थायां तु योगरहितत्वेनौदारिकादिशरीरपोषकपुद्गलग्रहणाभावाद् अनाहारकत्वम्, "औदारिकवैक्रियाहारकशरीरपोषकपुद्गलोपादानमाहारः" इति प्रवचनोपनिषद्वेदिनः । एवं मार्गणास्थानेषु गत्यादिषु "गुण" त्ति गुणस्थानकान्यभिहितानि ।। २३ ।।
अधुना मार्गणास्थानेष्वेव योगानभिधित्सुः प्रथमं तावद्योगानेव स्वरूपत आहसच्चेयर मोस असचमोस मणवइ विउब्वियाहारा |
उरलं मीसा कम्मण, इय जोगा कम्ममणहारे ॥ २४ ॥
इह योगशब्देन कारणे कार्योपचारात् तत्तत्सहकारिभूतं मनःप्रभृत्येव विवक्षितमिति तैः सह योगस्य सामानाधिकरण्यम् । तत्र मनोयोगश्चतुर्धा, तद्यथा - सत्यमनोयोगः १ असत्य मनोयोगः २ सत्यासत्यमनोयोगः ३ असल्यामृषमनोयोगः ४ । तत्र सन्तो मुनयः पदार्था वा तेषु यथामुक्तिप्रापकत्वेन यथावस्थिततत्वचिन्तनेन च हितः सत्यः, यथाऽस्ति जीवः सदसद्रूपः कायप्रमाण इत्यादिरूपतया यथावस्थितवस्तुविकल्पनपर इत्यर्थः, सत्यश्वासौ मनोयोगश्च सत्यमनोयोगः १ | तथा सत्यविपरीतोऽसत्यः, यथा नास्ति जीव एकान्तसद्भूतो / विश्वव्यापीत्यादिकुविकल्पचिन्तनपरः, असत्यश्चासौ मनोयोगश्च असत्यमनोयोगः २ । तथा मिश्रः - सत्यासत्यमनोयोगः, यथा इह वखदिरपलाशादिमिश्रेषु बहुष्वशोकवृक्षेषु अशोकवनमेवेदमिति यदा विकल्पयति तदा तत्राऽशोकवृक्षाणां सद्भावात् सत्यः, अन्येषामपि धवखदिरपला शादीनां तत्र
1
१ सामायिकसंयतो मदन्त ! कविषु श्वासु मवेत् ? गौतम ! पट्सु लेश्यासु भवेत् एवं छेदोस्थानीय संयतोऽपि ॥