________________
१७५
२१-२३]
षडशीतिनामा चतुर्थः कर्मग्रन्थः। अउ उवसमि चउ वेयगि, खहगे इकार मिच्छतिगि देसे।
सुहुमे य सठाणं तेर जोग आहार सुक्काए ॥२२ ।। काकाक्षिगोलकन्यायाद् इह "अयतादीनि" [इति] पदं सर्वत्र योज्यते । ततोऽयतादीन्युपशान्तमोहान्तान्यष्टौ गुणस्थानान्यौपशमिकसम्यक्त्वे भवन्ति । अयतादीन्यप्रमत्तान्तानि चत्वारि 'वेदके' क्षायोपशमिकापरपर्याये गुणस्थानकानि भवन्ति । क्षायिकसम्यक्त्वे अयतादीन्ययोगिकेवलिपर्यवसानान्येकादश गुणस्थानकानि भवन्ति । तथा 'मिथ्यात्वत्रिके मिथ्यादृष्टिसासादनमिश्रलक्षणे 'देशे देशविरते 'सूक्ष्मे सूक्ष्मसम्पराये 'चः' समुच्चये 'स्वस्थान' निजस्थानम् । इदमुक्तं भवति-मिथ्यात्वमार्गणास्थाने मिथ्यादृष्टिगुणस्थानम् , सासादनमार्गणास्थाने सासादनं गुणस्थानम् , मिश्रे मार्गणास्थाने मिश्रं गुणस्थानम् , देशसंयममार्गणास्थाने देशविरतंगुणस्थानम् , सूक्ष्मसम्परायसंयममार्गणास्थाने सूक्ष्मसम्परायगुणस्थानम् । तथा 'योगे' मनोवाक्कायलक्षणे अयोगिकेवलिवर्जितानि शेपाणि त्रयोदश गुणस्थानानि भवन्ति, सर्वेष्वप्येतेषु यथायोगं योगत्रयस्यापि सम्भवात् । तथा आहारकेषु आद्यानि त्रयोदश गुणस्थानानि भवन्ति, सर्वेष्यप्येतेषु ओजोलोमप्रक्षेपाहाराणामन्यतमस्याहारस्य यथायोगं सम्भवात् । तथा ' सुक्काए"त्ति शुक्ललेश्यायां प्रथमानि त्रयोदश गुणस्थानानि भवन्ति, न त्वयोगिकेवलिगुणस्थानम् , तस्य लेश्यातीतत्वादिति ॥२२॥
अस्सनिसु पढमदुर्ग, पढमतिलेसासु छच्च दुसु सत्त ।
पढमंतिमदुगअजया,अणहारे मग्गणासु गुणा ॥ २३ ॥ ___'असंज्ञिषु' संज्ञिव्यतिरिक्तेषु प्रथमं मिथ्यादृष्टिसासादनलक्षणं गुणस्थानकद्वयं भवति । तत्र ( ग्रन्थानम् -१०००) मिथ्यात्वमविशेषेण सर्वत्र द्रष्टव्यम् , सासादनं तु लब्धिपर्याप्तकानां करणापर्याप्तावस्थायामिति । प्रथमासु तिसृषु लेश्यासु मिथ्यादृष्टयादीनि प्रमत्तान्तानि षड् गुणस्थानानि भवन्ति । 'चः' समुच्चथे । कृष्णनीलकापोतलेश्यानां हि प्रत्येकमसङ्खथे यलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि, ततो मन्दसंक्लेशेषु तदध्यवसायस्थानेषु तथाविधसम्यक्त्वदेशविरतिसर्वविरतीनामपि सद्भावो न विरुध्यते । उक्तं च___ सम्यक्त्वदेशविरतिसर्यविरतीनां प्रतिपत्तिकाले शुभलेश्यात्रयमेव भवति । उत्तरकालं तु सर्षा अपि लेश्याः परावर्तन्तेऽपि इति । श्रीमदाराध्यपादा अप्याहु:
'सम्मत्तसुयं सव्वासु लहइ सुद्धासु तीसु य चरित्तं ।
पुचपडिवन्नओ पुण, अन्नयरीए उ लेसाए ॥ ( आव०नि० गा० ८२२) १ तादीति प० क०॥ २ सम्यक्त्वश्रुतं सर्वासु लमते शुद्धासु तिसृषु च चारित्रम् । पूर्वप्रतिपन्नः पुनरन्यतरस्यां तु लेश्यायाम ॥