________________
१७४
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा
स यतः प्रमत्तयतिः, यत आदौ येषां तानि यतादीनि प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिवाद सूक्ष्मसम्परायोपशान्तमोहक्षीणमोहलक्षणानीति । सामायिके छेदोपस्थादने च चत्वारि यतादीनि गुण स्थानानि, प्रमत्ताप्रमत्तनिवृत्तिवादरानिवृत्तिवादराणीत्यर्थः द्वे गुणस्थान के प्रमत्ताप्रमत्तरूपे परिहारविशुद्धि चारित्र इत्यर्थः, नोत्तराणि, तस्मिन् चारित्रे वर्तमानस्य श्रेण्यारोहणप्रतिषेधात् । 'केवलद्विके' केवलज्ञानकेवलदर्शनरूपे द्वे गुणस्थाने भवतः, के ? इत्याह- 'चरमे ' अन्तिमे सयोगिके' वलिगुणस्थानकायोगिकेवलिगुणस्थानके इति । “अजयाइ नव महसुओहिदुगे" त्ति अयतःअविरतः स आदौ येषां तान्ययतादीनि अविरतसम्यग्दृष्ट्यादीनि क्षीणमोहपर्यवसानानि नव गुणस्थानानि भवन्ति 'मतौ' मतिज्ञाने 'श्रुते' श्रुतज्ञाने 'अवधिद्विके' अवधिज्ञानावधिदर्शनलक्षणे, न शेपाणि । तथाहि - न मतिज्ञानश्रुतज्ञानावधिज्ञानानि मिध्यादृष्टिसासादनमिश्रेषु भवन्ति, तद्भावे ज्ञानत्वस्यैवायोगात् । यत् तु अवधिदर्शनं तत् कुतश्चिदभिप्रायाद् विशिष्टश्रुतविदो मिथ्यावादीनां नेच्छन्ति, तन्मतमाश्रित्यास्माभिरपि तत् तेषां न भणितम् । अथ च सूत्रे (मिथ्यादृष्ट्यादीनामप्यवधिदर्शनं प्रतिपाद्यते । यदाह रभसवशविनम्रसुरासुरनर किन्नरविद्याधरपरिवृढमाणिक्य मुकुटकोटीविटङ्क निघृष्टचरणारविन्दयुगलः श्रीसधर्मस्वामी पञ्चमाङ्ग - 'ओहिदंसण अणगारोव उत्ता णं भंते ! किं नाणी अन्नाणी ? गोयमा ! नाणी व अन्नाणी वि । जइ नाणी तो अत्थेगइया तिनाणी अत्थेगइया चउनाणी । जे तिनाणी ते आभिणिबोहियनाणी सुअनाणी ओहिंनाणी । जे चउनाणी ते आभिणिवोहियनाणी सुयनाणी ओहिनाणी मणपजवनाणी । जे अन्नाणी ते निय' मा मइअन्नाणी सुयअन्नाणी विभंगनाणी । (श० ८ उ० २ पत्र ३५५ - १ इति ।
अत्र हि येऽज्ञानिनस्ते मिथ्यादृष्टय एवेति मिथ्यादृष्ट्यादीनामप्यवधिदर्शनं साक्षादत्र सूत्रे प्रतिपादितम् । स एव विभङ्गज्ञानी यदा सासादनभावे मिश्रभावे वा वर्तते तत्रापि तदानीमवधिदर्शनं प्राप्यत इति । यत् पुनः सयोग्ययोगिकेवलिगुणस्थानकद्विकं तत्र मतिज्ञानादि न सम्भव - त्येव तद्व्यवच्छेदेनैव केवलज्ञानस्य प्रादुर्भावात् " "नट्ठम्मि उ छाउमत्थिए नाणे " ( आव ० नि० ० गा० ५३६ ) इति वचनप्रामाण्यादिति ॥ २१ ॥
१०वल्ययोगिके० ख० म० ध० ॥ २ अवधिदर्शनानाकारोपयुक्ता मदन्त ! किं ज्ञानिनोऽज्ञानिनः १ गौतम ! ज्ञानिनोऽप्यज्ञानिनोऽपि । यदि ज्ञानिनः ततोऽस्त्येककाः त्रिज्ञ निनोऽस्त्येक काश्चतुर्ज्ञानिनः । ये त्रिज्ञानिनस्ते अभिनिवोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः । ये चतुर्ज्ञानिनस्ते आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यायज्ञ । निनः । ये अज्ञानिनस्ते नियमाद् मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनः ॥ ३ जे नाणी ते अ० भगवत्याम् ॥ ४ मा तिअन्नाणी, तं जहा मइ० भगवत्याम् ॥ ५ नष्टे तु छाद्मस्थिके ज्ञाने ॥