________________
१८-२१ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१७३
न शेषाणि, अनिवृत्तिबादरगुणस्थान एव वेदत्रिकस्य कषायत्रिकस्य चोपशान्तत्वेन क्षीणत्वेन वा शेषेषु गुणस्थानेषु तदसम्भवात् । 'लोभे' लोभकपाये दश गुणस्थानानि, तत्र नव पूर्वोक्तानि दशमं तु सूक्ष्मसम्परायलक्षणम्, तत्र किट्टीकृतसूक्ष्मलोभकपायदलिकस्य वेद्यमानत्वात् । चत्वारि प्रथमानि 'अयते' विरतिहीन इत्यर्थः, कोऽर्थः ? विरतिहीने मिध्यात्वमास्वादन मिश्राविरतसम्यग्दृष्टिलक्षणानि चत्वारि गुणस्थानानि भवन्तीति । "दु ति अन्नाणतिगे" त्ति 'अज्ञानत्रिके' मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणे प्रथमे द्वे गुणस्थान के मिध्यादृष्टिसास्वादनरूपे भवतः, न मिश्रमपि । यतो यद्यपि मित्रगुणस्थानके यथास्थितवस्तुतत्त्वनिर्णयो नास्ति तथापि न तान्यज्ञानान्येव सम्यग्ज्ञानलेशव्यामिश्रत्वाद् अत एव न मित्रगुणस्थानकमभिधीयते । उक्तं चमिथ्यात्वाधिकस्य मिश्र प्रज्ञानबाहुल्यं सम्यक्त्वाधिकस्य पुनः सम्यग्ज्ञानबाहुल्यम् (जिनवल्लभीपडशीतिटीका पत्र १६० - २ ) इति ।
ज्ञानलेशसद्भावतो न मिश्रगुणस्थानकमज्ञानत्रिके लभ्यते इत्येके प्रतिपादयन्ति तन्मतमधिकृत्यास्माभिरपि 'द्वे' इत्युक्तम् ।
अन्ये पुनराहुः - अज्ञानत्रिके त्रीणि गुणस्थानानि, तद्यथा - - मिथ्यात्वं सास्वादनं मिश्रदृष्टि | यद्यपि " "मिस्सम्मी वामिस्सा" (पञ्चसं०गा०२०) इति वचनाद् ज्ञानव्यामिश्राण्यज्ञानानि प्राप्यन्ते न शुद्ध ज्ञानानि तथापि तान्यज्ञानान्येव, शुद्धसम्यक्त्वमूलत्वेनात्र ज्ञानस्य प्रसिद्धत्वात्, अन्यथा हि यद्यशुद्धसम्यक्त्वस्यापि ज्ञानमभ्युपगम्यते तदा सास्वादनस्यापि ज्ञानाभ्युपगमः स्यात्, न चैतदस्ति, तस्याज्ञानित्वेनानन्तरमेवेह प्रतिपादितत्वात् तस्माद् अज्ञानत्रिके प्रथमं गुणस्थानक त्रयमवाप्यत इति ।
तन्मतमाश्रित्यास्माभिरपि 'त्रिकम्' इत्युक्तम् । तत्रं तु केवलिनो विशिष्टश्रुतविदो वा विदन्तीति । द्वादश प्रथमानि गुणस्थानकानि अचक्षुर्दर्शने चक्षुर्दर्शने च भवन्ति यतो मिथ्यादृष्टिप्रभृतिक्षीणमोहपर्यन्तेषु गुणस्थान के 'वचक्षुर्दर्शन चक्षुर्दर्शनसम्भवात् । यथाख्याते चारित्रे ‘चरमाणि' अन्तिमानि उपशान्तमोहक्षीणमोहसयोगिकेवल्ययोगिकेवलिलक्षणानि चत्वारि गुणस्थानानि भवन्ति, एषु कषायाभावादिति ॥ २० ॥
मणनाणि सग जयाई, समय छेय च दृन्नि परिहारे । केवलदुगि दो चरमाऽजयाइ नव मह् सुओहिदुगे || २१ ||
'मनोज्ञाने' मनः पर्यवज्ञाने "सग" ति सप्त गुणस्थानानि भवन्ति । कानि १ इत्याह'यतादीनि' तत्र “यम् उपरमे" यमनं यतं सम्यक् सावद्याद् उपरमणमित्यर्थः, यतं विद्यते यस्य
१ मिश्र व्यामिश्राणि ॥