________________
देवेन्द्रसूरिविरचितस्वोरज्ञटीकोपेतः
[ गाथा
"ते सुहुमअपज्ज विणा सासणि" ति सास्वादने सम्यक्त्वे तान्येव पूर्वोक्तानि षड् अपर्याप्तपर्याप्त संज्ञिद्विकलक्षणान्यष्टौ जीवस्थानानि सूक्ष्मापर्याप्तं विना सप्त भवन्ति । एतदुक्तं भवतिअपर्याप्तबादरै केन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रिय संज्ञि पञ्चेन्द्रियपर्याप्त संज्ञि पञ्चेन्द्रियलक्षणानि सप्त जीवस्थानकानि सास्वादनसम्यक्त्वे भवन्तीति, यत्तु सूक्ष्मै केन्द्रिया पर्याप्तलक्षणं जीवस्थानं तत् सास्वादनसम्यक्त्वे न घटामियर्ति, सास्वादन सम्यक्त्वस्य मनाक् शुभ परिणामरूपत्वात्, महासंक्लिष्टपरिणामस्य च लूक्ष्मै केन्द्रियमध्ये उत्पादाभिधानात् । सूत्रे च सर्वत्र लिङ्गव्यत्ययः प्राकृतस्वात्, प्राकृते हि लिङ्गं व्यभिचार्यपि । यदाह पाणिनिःस्वप्राकृत लक्षणे "लिङ्गं व्यभिचार्यपि " इति । उक्तानि मार्गणास्थानकेषु जीवस्थानकानि । इत ऊर्वमेते वेव मार्गणास्थानकेषु "गुणि "त्ति गुणस्थानकानि 'वक्ष्ये' प्रतिपादयिष्य इति || १८ || अथ यथाप्रतिज्ञातमेव निर्वाहयन्नाह - पण तिरि च सुरनरए, नर सन्नि पर्णिदि भव्व तसि सव्वे । इग विगल भू दग वणे, दुदु एगं गइतस अभव्वे ॥ १६ ॥
1
१७२
पञ्च गुणस्थानकानि मिथ्यादृष्टिसास्वादन मिश्रा विरतसम्यग्दृष्टिदेश विरतिलक्षणानि “तिरि" त्ति तिर्यग्गतौ भवन्ति । चतुःशब्दस्य प्रत्येकं योगात् 'सुरे' 'सुरगतौ चत्वारि प्रथमगुणस्थानकानि 'नरके ' नरकगतौ च प्रथमानि चत्वारि गुणस्थानानि भवन्ति न देशविरतादीनि तेषु भवस्वभावतो देशतोऽपि विरतेरभावादिति । 'नरे' नरगतौ 'संज्ञिनि' विशिष्टमनोविज्ञानभाज पञ्चेन्द्रिये भव्ये ‘त्रसे' त्रसकाये च 'सर्वाण्यपि' चतुर्दशापि गुणस्थानकानि भवन्ति, एतेषु मिथ्यादृष्ट्यादीनामयोगि केवल्यवसानानां सर्व भावानामपि सम्भवात् । "इग" त्ति एकेन्द्रियेषु सामान्यतः " विगल " त्ति विकलेन्द्रियेषु' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु 'भुवि' पृथ्वीकाये 'उदके' अप्काये 'वने' वनस्पतिकाये "दु दु" त्ति 'द्वे द्वे' आद्ये मिथ्यात्व सासादनलक्षणे भवतः । तत्र मिथ्यात्व - मविशेषेण सर्वेषु द्रष्टव्यम् ; सासादनं तु तेजोवायुवर्ज बादरै केन्द्रियद्वित्रिचतुरिन्द्रियपृथिव्यम्बुवनस्पतिषु लब्ध्या पर्याप्तकेषु करणेन त्वपर्याप्तकेषु, न सर्वेष्विति । तथा एक मिथ्यात्वलक्षणं गुणस्थानकं भवति, केषु ? इत्याह- गत्या गमनेन त्रसाः न तु त्रसनामकर्मोदयाद् गतित्रसाः तेजोवायवस्तेषु, सासादनभावोपगतस्य तेषु मध्य उत्पादाभावाद् अभव्येषु चेति ॥ १९ ॥
1
वेय तिकसाय नव दस, लोभे चउ अजइ दु ति अनाणतिगे । बारस अचक्खुचक्खु, पढमा अहखाइ चरम चऊ || २० ॥
'वेदे' वेदत्रये वेदत्रयाणां कषायाणां समाहारस्त्रिकषायं क्रोधमानमायालक्षणं तस्मिन् त्रिकपाये “पढम” त्ति प्रथमानीति पदं डमरुक्रमणिन्यायेन सर्वत्र योज्यम् । ततो वेदे - स्त्रीषु नपुंसक लक्षणे. कषायत्रये च प्रथमानि मिथ्यादृष्ट्यादीनि अनिवृत्तिबादरपर्यन्तानि नव गुणस्थानकानि भवन्ति