________________
१६-१८]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
यदुक्तं पञ्चसङ्ग्रहमूलटीकायाम् - करणापर्याप्तेषु चतुरिन्द्रियादिषु इन्द्रियपर्याप्तौ सत्यां चक्षुर्दर्शनं भवति । ( पत्र - ५ - १ )
इति ।। १७ ।।
थीनरपणिदि चरमा, चउ अणहारे दु सन्निछ अपज्जा ।
ते सुहुमअपजविणा, सासणि इन्तो गुणे वुच्छं ॥ १८ ॥
.
वेदे नरवेदे पञ्चेन्द्रिये च 'चरमाणि' अन्तिमानि पर्याप्तापर्याप्तासंज्ञिसंज्ञिपञ्चेन्द्रियलक्षणानि चत्वारि जीवस्थानानि भवन्ति । यद्यपि च सिद्धान्ते असंज्ञी पर्याप्तोऽपर्याप्तो वा सर्वथा नपुंसक एवोक्तः । तथा चोक्तं श्रीभगवन्याम्
१७१
-
ते 'णं भंते! असन्निपंचेंदियतिरिक्खजोणिया किं इत्थवेयगा पुरिसवेयगा नपुं सगवेयगा ! गोमा ! नो इत्थवेगा नो पुरिसवेयगा नपुं सगवेयगा ( श० २४ उ० १ पत्र ८०६ ) इति । तथापी स्त्रीपु सलिङ्गाकारमात्रमङ्गीकृत्य स्त्रीवेदे नरवेदे चासंज्ञी निर्दिष्ट इत्यदोषः ।
उक्तं च पश्चसङ्ग्रहमूलटीकायाम् -
यद्यपि चासंज्ञिपर्याप्तापर्याप्तौ नपुंसकौ तथापि स्त्रीपु सलिङ्गाकारमात्र मङ्गीकृत्य स्त्रीपु सावुक्तौ ( पत्र १० ) इति ।
अपर्याप्त कश्चेह करणापर्याप्तको गृह्यते न लब्ध्यपर्याप्तकः, लब्ध्यपर्याप्तकस्य सर्वस्य नपुंसकत्वात् । अनाहारके "दु सन्निछ अपज " त्तिद्विविधः संज्ञी पर्याप्तापर्याप्तलक्षणः षड् अपर्याप्ताश्चेत्यष्टौ जीवस्थानानि भवन्ति । अयमर्थः - अपर्याप्तसूक्ष्मबादरै केन्द्रिय द्वित्रिचतुरसंज्ञिसंज्ञिपञ्चेन्द्रिय लक्षणानि सप्त जीवस्थानानि अनाहारके विग्रहगतावेकं द्वौ त्रीन् वा समयान् यावद् आहारासम्भवात् सम्भवन्ति,
विगहगह मावन्ना, केवलिणो समुहया अजोगी य ।
सिद्धा य अणाहारा, सेसा आहारगा जीवा || ( श्रावकप्र० गा० ६८) इति वचनात् ; संज्ञिपर्याप्तलक्षणं जीवस्थानम् अनाहारके केवलिसमुद्घातावस्थायां तृतीयचतुर्थपञ्चमसमयेषु लभ्यते । उक्तं च
कार्मणशरीरयोगी, तृतीय के पञ्चमे चतुर्थे च ।
समयत्रये च तस्मिन्, भवत्यनाहारको नियमात् ।। ( प्रश० का ० २७७)
१ तं भदन्त । असंज्ञिपञ्चेन्द्रियतिर्यग्योनिकाः किं स्त्रीवेदकाः पुरुषवेदकाः नपुंसकवेदकाः १ गौतम | न स्त्रीवेदका न पुरुषवेदका नपुंसकवेदका इति ॥ २ विग्रहगतिमापन्नाः केवलिनः समुद्धता अयोगिनश्च । सिद्धाश्वानाहाराः शेषा आहारका जीवाः ॥