________________
१७०
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
दस चरम तसे अजयाहारग तिरि तणु कसाय दु अनाणे । पढमतिलेसा भवियर, अचक्खु नपु मिच्छि सव्वे वि ॥ १६ ॥
'त्र से' सकाये 'चरमाणि' अन्तिमानि पर्याप्तापर्याप्तद्वित्रिचतुरसंज्ञिसंज्ञिपञ्चेन्द्रियलक्षणानि दश जीवस्थानानि भवन्ति, द्वीन्द्रियादीनामेव त्रसत्वात् । 'अयते' अविरते सर्वाण्यपि जीवस्थानानि भवन्ति । तथा आहारके “तिरि" ति तिर्यग्गतौ ' तनुयोगे' काययोगे कपायचतुष्टये 'द्वयोरज्ञानयो:' मत्यज्ञानश्रुताज्ञानरूपयोः 'प्रथम त्रिलेश्यासु' कृष्णलेश्या नीललेश्याकापोतलेश्यालक्षणास भव्ये 'इतरस्मिन्' अभव्ये “अचक्खु" त्ति अचक्षुर्दर्शने "नपु" त्ति नपु ंसकवेद "मिच्छि" त्ति मिथ्यात्वे 'सर्वाण्यपि ''चतुर्दशापि जीवस्थानकानि भवन्ति, सर्वजीवस्थानकव्यापकत्वाद् अयतादीनामिति ।। १६ ।।
पजसन्नी केवलदुगे, संजय मणनाण देस मण मोसे | पण चरम पज्ज बघणे, नियछ व पजियर चक्खुम्मि || १७ ||
1
: "पजसन्नि" त्ति पर्याप्त संज्ञिलक्षण मेकमेव जीवस्थानं भवति । क्व ? इत्याह- 'केवल द्विके' केवलज्ञान केवलदर्शन लक्षगे 'संयतेपु' सामायिकच्छेदोपस्थापन परिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातरूपपञ्चप्रकार संयमवत्सु " मणनाण" त्ति मनःपर्यायज्ञाने "देस" त्ति देशयते - देशविरते श्रावक इत्यर्थः, "मण" त्ति मनोयोगे "मीस" त्ति मिश्र - सम्यग्मिथ्यादृष्टौ । तत्र केवलद्विके संयतेषु मन:पर्ययज्ञाने देशविरते च संज्ञिपर्याप्तलक्षणं जीवस्थानकं विना नान्यद् जीवस्थानकं सम्भवति, तत्र सर्वविरतिदेशविरत्योरभावात् । मनोयोगेऽप्येतदन्तरेणाऽन्यद् जीवस्थानकं न घटते, तत्र मनः सद्भावायोगात् । मिश्र पुनः पर्याप्तसंज्ञिव्यतिरेकेण शेषं जीवस्थानकं तथाविधपरिणामाभावादेव न सम्भवतीति । तथा पञ्च जीवस्थानानि 'चरमाणि' अन्तिमानि 'पर्याप्तानि ' पर्याप्तद्वीन्द्रियपर्याप्तत्रीन्द्रियपर्याप्तचतुरिन्द्रियपर्याप्ता संज्ञि पञ्चेन्द्रियपर्याप्त संज्ञिपञ्चेन्द्रियलक्षणानि "वयण', त्ति वचनयोगे - वाग्योगे भवन्ति न शेषाणि तेषु वाग्योगासम्भवात् । "तिय छ व पञ्जियार चक्खुम्मि" ति चक्षुर्दर्शने त्रीणि जीवस्थानानि पर्याप्तचतुरिन्द्रियपर्याप्ता संज्ञि पञ्चेन्द्रियपर्याप्तसंज्ञिपञ्चेन्द्रियरूपाणि नान्यानि तेषु चक्षुष एवाभावात् । अत्रैष मतान्तरेण विकल्पमाह - षड् वा जीवस्थानानि चक्षुर्दर्शने भवन्ति । कथम् ? इत्याह - "पजियर" त्ति पूर्व प्रदर्शितपर्याप्तत्रिकं सेतरमपर्याप्तत्रिकसहितं षड् भवन्ति । इदमुक्तं भवति - अपर्याप्त पर्याप्तचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियसंज्ञिपञ्चेन्द्रियरूपाणि षड् जीवस्थानानि चक्षुर्दर्शने भवन्ति, चतुरिन्द्रियादीनामिन्द्रियपर्याप्त्या पर्याप्तानां शेषपर्याप्त्यपेक्षया अपर्याप्तानामपि आचार्यान्तरैश्चक्षुर्दर्शनाभ्युपगमात् ।
१०प्येनसन्त रे० क० घ० ङ० ॥