________________
१४-१५ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१६९
जीवकलेवरे वा थी पुरिससंजोगेसु वा नगरनिद्धमणेसु वा सव्वैसु चैव असुइट्टा इत्थ सम्मुच्छिममणुस्सा सम्मुच्छंति अंगुलस्स असंखेज्जभागमित्ताए ओगाहणाए । असन्नी मिच्छद्दिकी अन्नाणी सव्वाहिं पज्जतीहिं अपज्जत्ता' अंतमुहुत्ताउया चेव कालं करंति ति । ( पत्र ५० - १ )
तान् सम्मूच्छिममनुष्यानाश्रित्य तृतीयमप्यसंज्ञयपर्याप्तलक्षणं जीवस्थानं प्राप्यत इति । “सबायरअपज्ज तेऊए” त्ति तदेवेत्यनुवर्तते, तदेव पूर्वक्तिं संज्ञिद्विकं सह बादरापर्याप्तन वर्तत इति सचादरापर्याप्तं तेजोलेश्यायां लभ्यते । एतदुक्तं भवति - तेजोलेश्यायां त्रीणि जीवस्थानानि भवन्ति संज्ञयपर्याप्तः संज्ञिपर्याप्तः बादरै केन्द्रियापर्याप्तश्च । बादरोऽपर्याप्तः कथमवाप्यते ? इति चेद् उच्यते - इह भवनपतिव्यन्तरज्योतिष्कसौधर्मेशान देवाः पृथिवीजलवनस्पतिषु मध्ये उत्पद्यन्ते । यदाह दुःषमान्धकारनिमग्नजिन प्रवचनप्रदीपो भगवान् जिन भद्रगणिक्षमाश्रमण:'पुढवी आउवणस्सह, गन्भे पज्जत्तसंखजीवीसु |
सग्गचयाणं वासो, सेसा पडिसेहिया ठाणा || ( वृ० सं० पत्र ७७ - १) ते च तेजोलेश्यावन्तः, यदभाणि -
किण्हा नीला काऊ, तेऊलेसा य भवणवंतरिया । जोइससोहम्मसाणि तेउलेसा मुणेयव्वा || ( वृ० सं० पत्र ८१ - १)
यल्लेश्यश्च म्रियते तल्लेश्य एव अग्रेऽपि समुत्पद्यते, ""जल्ले से मरइ तल्लेसे उववज्जइ" इति वचनात् । अतो बादरापर्याप्तावस्थायां कियत्कालं तेजोलेश्याऽवाप्यत इति सिद्धं जीवस्थानकत्रयं तेजोलेश्यायामिति । कायद्वारे - स्थावरेषु पृथिव्यप्तेजोवायुवनस्पतिलक्षणेषु, इन्द्रियद्वारे एकेन्द्रिये च प्रथमानि चत्वारि जीवस्थानानि सूक्ष्मैकेन्द्रियापर्याप्तसूक्ष्मै केन्द्रियपर्याप्तबादरे केन्द्रियापर्याप्तबादरै केन्द्रियपर्यामलक्षणानि भवन्ति । 'असंज्ञिनि' संज्ञिव्यतिरिक्ते कोलिक' नलिकन्यायेन प्रथमशब्दस्य सम्बन्धात् 'प्रथमानि' आदिमानि द्वादश जीवस्थानानि पर्याप्त पर्याप्तसूक्ष्मवादरै केन्द्रियद्वित्रिचतुरसंज्ञिपञ्चेन्द्रियलक्षणानि भवन्ति, सर्वेषामपि विशिष्टमनोविकलतया संज्ञिप्रतिपक्षत्वाविशेषात्, संज्ञिप्रतिपक्षस्य चाऽसंज्ञित्वेन व्यवहारात् । "दुदु विगल" त्ति 'विकलेषु' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु द्वे द्वे जीवस्थान के भवतः । तत्र द्वीन्द्रियेषु द्वीन्द्रियोऽपर्याप्तः पर्याप्त इति द्वे, त्रीन्द्रि येषु त्रीन्द्रियोऽपर्याप्तः पर्याप्त इति द्वे, चतुरिन्द्रियेषु चतुरिन्द्रियोऽपर्याप्तः पर्याप्त इति द्वे ।। १५ ।।
१ पृथिव्यन्त्रनस्पतिषु गर्भजेषु पर्याप्तसङ्ख्यातजीविषु । स्वर्गच्युतानां वासः शेषाणि प्रतिषिद्धानि स्थानानि ॥ २ कृष्णनीलकापोत तेजोलेश्याश्च भवनव्यन्तराः । ज्योतिष्क सौधर्मेशानेषु तेजोलेश्या ज्ञात|| ३ यदेश्यो म्रियते तल्लेश्य उत्पद्यते ॥ ४०नलक क० ख० ग० ङ० ।।
२२