________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा देवो तिविहसम्मद्दिवी वि ।।
पञ्चविंशत्युदयश्च शरीरपर्याप्ति निवर्तयतः । तथाहि-निर्माणस्थिरास्थिरागुरुलघुशुभाशुभतैजसकार्मणवर्णगन्धरसस्पर्शचतुष्कदेवगतिदेवानुपूर्वीपञ्चेन्द्रियजातित्रसवादरपर्याप्तकं सुभगदुर्भगयोरेकतरम् आदेयानादेययोरेकतरं यशःकीययशःकीयो रेकतरमित्येकविंशतिः, ततः शरीरपर्याप्त्या पर्याप्तस्य' बैंक्रियद्विकोपघातप्रत्येकसमचतुरस्रलक्षणप्रकृतिपञ्चकक्षेपे देवानुपूर्व्यपनयने च पञ्चविंशतिर्भवति । ततः शरीरपर्याप्त्या पर्याप्तस्य शेषपर्याप्तिभिः पुनरपर्याप्तस्य पराघातप्रशस्तविहायोगतिक्षेपे सप्तविंशतिर्भवति । ततोऽपर्याप्तावस्थायामपीह देवस्यौपशमिकं सम्यक्त्वमुक्तम् । तथा पश्चसङ्ग्रहेऽपि मार्गणास्थानकेषु जीवस्थानकचिन्तायामौपशमिकसम्यक्त्वे "उवसमसम्मम्मि दो सन्नी" इत्यनेन ग्रन्थेन संज्ञिद्विकमुक्तम् । ततः सप्ततिचूर्ण्यभिप्रायेण पञ्चसङ्ग्रहाभिप्रायेण चास्माभिरपि औषशमिकसम्यक वे संज्ञिद्विकमुक्तम् , तत्त्वं तु केवलिनो विशिष्टबहुश्रुता वा विदन्तीति ।।१४॥
तमसनिअपजजुयं, नरे सवायरअपज तेऊए ।
थावर इगिदि पढमा, चर बार असन्नि दु दु विगले ।। १५॥ 'तत् ' पूर्वोक्तं संज्ञिद्विकमपर्याप्तासंज्ञियुतं 'नरे' नरेषु लभ्यते, जातावेकवचनम् । अयमर्थःइह द्वये मनुष्याः, गर्भव्युत्क्रान्तिकाः सम्मूर्लिछमाश्च । तत्र ये गर्भव्युत्क्रान्तिकास्तेषु यथोक्तं संज्ञिधिक लभ्यते । ये तु वान्तपित्तादिषु सम्मूर्च्छन्ति तेऽन्तमुहूर्तायुषोऽसंज्ञिनो लब्ध्यपर्याप्तकाश्च द्रष्टव्याः । यदाहुः श्रीमदायश्यामपादाः प्रज्ञापनायाम्
'कहि णं भंते ! सम्मुच्छिममणुस्सा सम्मुच्छंति ? गोयमा ! अंतो मणुस्सखेत्तस्स पणयालीसाए जोयणसयसहस्सेसु अड्डाइज्जेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पन्नाए अंतरदीवेसु गब्भवक्कंतियमणुस्साणं चेत्र उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा वंतेसु वा पित्तेसु वा पूएसु वा सोणिएसु वा सुकेसु वा सुक्कपुग्गलपरिसाडेसु वा विगय
. १ इन ऊर्ध वं-'शेषपर्याप्तिभिरपर्याप्तस्य'' इत्येष पाठो जैनधर्मप्रसारकसंसत्प्रकाशित पुस्तकेऽधिको दृश्यते, परमस्मत्पाश्र्ववत्तिषु पञ्चम्वपि पुस्तकादर्शषु नास्ति अतो मूले नाहत इति ।। २ उपशमसम्यक् द्वौ संज्ञिनौ ॥ ३ क्व भदन्त ! सम्भूछिममनुष्याः सम्मूर्च्छन्ति ? गौतम ! अन्तर्मनुष्यक्षेत्रस्य पञ्चचत्वारिंशति योजनशतसहस्रेषु अर्धतृतीययोद्वीपसमुद्रयोः पञ्चदशसु कमभूमिषु त्रिंशत्यकर्मभूमिषु षट्पञ्चाशत्यन्तीपेषु गर्भव्युत्क्रान्तिकमनुष्याणानेव उच्चारेषु वा प्रभवणेषु वा श्लेष्मसु वा सिंघानेषु वा वान्तेषु वा पित्तोषु वा पूतेषु वा शोणितेषु वा शुक्रेषु वा शुक्रपुद्गलपरिशाटेषु वा विगतजीवकलेवरेषु वा स्त्रीपुरुषसंयोगेष वा नगरनिर्धमनेष वा सर्वेष्वेवाशुचिस्थानेषु अत्र सम्मूछिममनुष्याः सम्पूर्छन्ति अमुलग्यासङ्ख्यं यभागमात्रयाऽवगाह नया । असंज्ञिनो मिश्यादृष्टयोऽज्ञानिनः सर्वाभिः पर्याप्तिमिरपर्याप्तकाः अन्तमुहर्तायुष्का एव काल. कुर्वन्ति ।।