________________
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१६३ नादध्यवसायविशेषरूपेणाऽऽयुर्वर्जानि ज्ञानावरणीयादिकर्माणि सर्वाण्यपि पल्योपमाङ्खये यभागन्यूनैकसागरोपमकोटाकोटीस्थितिकानि करोति, अत्र चाऽन्तरे जीवस्य कर्मजनितो धनरागद्वेषपरिणामरूपः कर्कशनिबिडचिरप्ररूढगुपिलवक्रग्रन्थिवद् दुर्भदोऽभिन्नपूर्वो ग्रन्थिर्भवति । तदुक्तम्--
'तीए वि थोवमित्ते, खविए इत्थंतरम्मि जीवस्स । हवइ हु अभिन्न पुग्यो, गंट्ठी एवं जीणा विति ॥ (धर्मसं० गा० ७५२) गंठि त्ति सुदुब्भेओ, कक्खडधणरूढगूढगंठि व्व ।
जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो ॥(विशेषा० गा० ११६५) इति । इमं च ग्रन्थि यावद् अभव्या अपि यथाप्रवृत्तिकरणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्ति । उक्तं चावश्यकटीकायाम्
अभव्यस्यापि कस्यचिद् यथाप्रवृत्तिकरणतो ग्रन्थिमासाद्य अहंदादिविभूतिदर्शनतः प्रयोजनान्तरतो वा प्रवर्तमानस्य श्रुतसामायिकलाभो भवति न शेषलाभ इति ॥ (पत्र ७६)
एतदनन्तरं कश्चिदेव महात्मा समासन्नपरमनिवृतिसुखः समुल्लसितप्रचुरदुर्निवारवीर्यप्रसरो निशितकुठारधारयेव परमविशुद्धथा यथोक्तस्वरूपस्य ग्रन्थैर्भेदं विधाय मिथ्यात्वस्थितेरन्तमुहूर्तमुदयक्षणादुपर्यतिक्रम्याऽपूर्वकरणानिवृत्तिकरणलक्षणविशुद्भिजनितसामोऽन्तमुहर्तकालप्रमाणं तत्प्रदेशवेद्यदलिकाभावरूपमन्तरकरणं करोति । अत्र यथाप्रवृत्तिकरणापूर्वकरणानिवृत्तिकरणानामयं क्रमः--
/ जा गंठी ता पढम, गंठिं समइच्छओ भवे बीयं ।
अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ॥ ( विशेषा० गा० १२०३ ) "गंठिं समइच्छओ" त्ति प्रन्थि समतिक्रामतः-भिन्दानस्येति, "सम्मत्तपुरक्खडे" ति सम्यक्त्वं पुरस्कृतं येन तस्मिन् , आसन्नसम्यक्त्वे जीवेऽनिवृत्तिकरणं भवतीत्यर्थः । एतस्मिश्चान्तरकरणे कृते सति तस्य मिथ्यात्वकर्मणः स्थितिद्वयं भवति । अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तमुहूर्तप्रमाणा, तस्मादेवान्तरकरणादुपरितनी शेषा द्वितीया स्थितिः । स्थापना - । तत्र प्रथमस्थिती मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव । अन्तमुहर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमय एव औपशमिकसम्यक्त्वमवाप्नोति, मिथ्यात्वदलिकवेदनाभावात् । यथा हि वनदावानल:
१ तस्या अपि स्तोकमात्रेक्षपितेऽत्रान्तरे जीवस्य । मवति हि भभिन्नपूर्वो प्रन्थिरेवं जिना ब्रवते ॥ प्रन्थिरिति सुदुर्भेदः कर्कशघनरूढगूढग्रन्थिरिय । जीवस्य कर्मजनितो घनरागद्वेषपरिणामः ।। २ यावद् प्रन्थिस्ताव प्रथम प्रन्धि समतिकामतो भवेद् द्वितीयम् । अनिवृत्तिकरणं पुनः पुरस्कृतसम्यक्त्वे जीवे ॥