________________
षडशीतिनामा चतुर्थः कर्मग्रन्थः।
'एयम्मि गोयराई, नियया नियमेण निरववाया य ।
तप्पालणं चिय परं, एयस्स विसुद्धिठाणं तु ॥ (पञ्चव० गा० १५०९-१०) प्रव्रज्याद्वारे-नासावन्यं प्रवाजयति कल्पस्थितिरेपेति कृत्वा । उक्तं च
पव्वाएइ न एसो, अन्नं कप्पट्टिइ त्ति काऊणं । (पञ्चव० गा० १५११) उपदेशं पुनर्यथाशक्ति प्रयच्छति । मुण्डापनद्वारेऽपि नासावन्यं मुण्डापयति । अथ प्रव्रज्या. नन्तरं नियमतो मुण्डनमिति प्रत्रज्याग्रहणेनैव तद् गृहीतमिति किमर्थं पृथग् द्वारम् १ तदयुक्तम् , प्रव्रज्यानन्तरं नियमतो मुण्डनस्याऽसम्भवात् , अयोग्यस्य कथञ्चिद्दत्तायामपि प्रव्रज्यायां पुनरयोग्यतापरिज्ञाने मुण्डनायोगाद् , अतः पृथगिदं द्वारमिति । प्रायश्चित्तविधिद्वारे-मनसाऽपि सूक्ष्ममप्यतिचारमापन्नस्य नियमतश्चतुगुरुकं प्रायश्चित्तमस्य, यत एष कल्प एकाग्रताप्रधानस्ततस्तद्भङ्गे गुरुतरो दोप इति । कारणद्वारे-कारणं नामाऽऽलम्बनम् , तत्पुनः सुपरिशुद्धं ज्ञानादिकम् , तचास्य न विद्यते येन तदाश्रित्याऽपवादपदसेविता स्यात् , एष हि सर्वत्र निरपेक्षः क्लिष्टकर्मक्षयनिमित्तं प्रारब्धमेव स्वं कल्पं यथोक्तविधिना समापयन् महात्मा वर्तते । उक्तं च
कारणमालंबणमो, तं पुण नाणाइयं सुपरिसुद्धं । एयस्स तं न विज्जइ. उचियं तव साहणोपायं ।। *सव्वत्थ निर वयक्खो, आढ वियं सं दढं समाणंतो।
वट्टइ एस महप्पा, किलिट्ठकम्मक्खयनिमित्तं ।। (पञ्चव० गा० १५१७-१८) निष्प्रतिकर्मताद्वारे-एष महात्मा निष्प्रतिकर्मशरीरोऽक्षिमलादिकमपि कदाचिद् नापनयति, न च प्राणान्तिकेऽपि व्यसने समापतिते द्वितीयपदं सेवते । उक्तं च
'निप्पडिकम्मसरीरो, अच्छिमलाई वि नावणेइ सया । पाणंतिए वि य महावसम्मि न वट्टए बीए । "अप्पबहुत्तालोयणविसयाईओ उ होइ एस त्ति । अहवा सुहभावाओ, बहुगं पेयं चिय इमस्स ।। (पञ्चव० गा० १५१४-२०)
१ एतस्मिन् गोचरादयो नियता नियमेन निरपवादाश्च । तत्पालनमेव परमेतस्य विशुद्धिस्थानं तु ।। २ प्रव्राजयति नैषोऽन्यं कल्पस्थितिरिति कृत्वा ।। ३ कारणमालम्बनं तत् पुनः ज्ञानादिकं सुपरिशुद्धम् । एतस्य तन्न विद्यते उचितं तपःसाधनोपायः ॥ ४ पञ्चवस्तुके तु-०साहणा पाय-० साधनात्प्रायः॥ ५ सर्वत्र निरपेक्ष आदृतं स्वं दृढं समापयन् । वर्त्तते एष महात्मा क्लिष्टकर्मक्षयनिमित्तम् ॥ ६ रववक्खो कघ० १०॥ ७ ०ढवियं चेव सं स० ख०। पञ्चवस्तुके तु-आढत्तं चिय द॥८ निष्पतिकर्मशरीरो ऽक्षिमलाद्यपि नापनयति सदा। प्राणान्ति केऽपि च महाव्यसने न वर्त्तते द्वितीये ॥ ९ पञ्चवस्तुके तुतहा ब० ।। १० अल्पबहुत्वालोचनविषयातीतस्तु भवत्येष इति । अथवा शुभमावाद् बहुकमप्येतदेवास्य ॥