________________
देवेन्द्रसूरिविरचितम्बोप झटीकोपेतः
[ गाथा मिक्षाद्वारे-भिक्षा विहारक्रमश्वाऽस्य तृतीयस्यां पौरुष्यां भवति, शेषासु च पौरुषीषु कायोत्सर्गः, निद्राऽपि चाऽस्याऽल्पा द्रष्टव्या । यदि पुनः कथमपि जवाबलमस्य परिक्षीणं भवति तथाऽप्येकोऽविहरन्नपि महाभागो न द्वितीयपदमापद्यते, किन्तु तत्रैव यथाकल्पमात्मीययोगान् विदधाति । उक्तं च
'तइयाए पोरिसी', भिक्खाकालो विहारकालो उ । सेसासु य उस्सगो, पायं अप्पा य निद्दा' वि ॥ (पश्चव० गा० १५२१) जंघावलम्मि खीणे. अविहरमाणो वि नवरि नावज्जे ।
तत्थेव अहाकप्पं, कुणइ उ जोगं महाभागो ।। (पश्चव० गा० १५२२) एते च परिहारविशुद्धिका द्विविधाः, तद्यथा-इत्वरा यावत्कथिकाश्च । तत्र ये कल्पसमाप्त्यनन्तरमेव कल्पं गच्छं वा समुपयास्यन्तित इत्वराः, ये पुनः कल्पसमाप्त्यनन्तरमव्यवधानेन जिनकल्पं प्रतिपत्स्यन्ते ते यावत्कथिकाः । उक्तं च
___'इत्तरिय थेरकप्पे, जिणक पे आव कहिय ति ॥ (पश्चव० गा० १५२४) अत्र स्थविरकल्पग्रहणमुपलक्षणं स्वकल्पे वेति द्रष्टव्यम् । तत्रेत्वराणां कल्पप्रभावाद् देवमनुष्यतिर्यग्योनिककृता उपसर्गाः सद्योघातिन आतङ्का अतीवाविषह्याश्च वेदना न प्रादुःषन्ति, यावत्कथिकानां सम्भवेपुरपि । ते हि जिनकल्पं प्रतिपत्स्यमाना जिनकल्पभावमनुविदधति, जिनकल्पिकानां चोपसर्गादयः सम्भवन्तीति । उक्तं च
'इत्तरियाणुवसग्गा आयंका वेयणा य न हवन्ति ।
___ आवकहियाण भइया, (पञ्चव० गा० १५२६) इति । तथा "सुहुम" ति 'सूक्ष्मसम्परायं' सम्परैति-पर्यटति संसारमनेनेति सम्परायः-क्रोधादिकषायः, सूक्ष्मो लोभांशमात्रावशेषतया सम्परायो यत्र तत् सूक्ष्मसम्परायम् । इदमपि संक्लिश्यमानकविशुद्धयमानक भेदं द्विधा । तत्र श्रेणिप्रच्यवमानस्य संक्लिश्यमानकम , श्रेणिमारोहतो विशुद्धथमानमिति । "अहखाय" ति अथशब्दोऽत्र याथातथ्ये, आङ् अभिविधौ, आसमन्ताद् याथातथ्येन ख्यातमथाख्यातम् , कषायोदयाभावतो निरतिचारत्वात् पारमार्थिकरूपेण ख्यातमथाख्यातम् । यद्वा यथा सर्वस्मिन् जीवलोके ख्यातं-प्रसिद्धम् अकषायं भवति चारित्र
५ तृतीयस्यां पौरुष्यां मिक्षाकालो विहारकालस्तु । शेषासु च उत्सर्गः प्रायोऽल्पा च निद्राऽपि ॥ २ निहति ॥इति पञ्चवस्तु के ॥ ३ जवाबले क्षीणेऽविहरन्नपि नवरं नापद्यते। तत्रैव यथाकल्पं करोति तु योग महाभागः ॥ ४ स्वराः स्थविरकल्पे, जिनकल्पे यावत्कथिका इति ।। ५ इत्वरिकाणामुपसर्गा आतङ्का वेदनाच न भवन्ति । यावत्कथिकान भवताः।।