________________
१२ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१५७
स्थितकल्प उच्यते, ये पुनश्चतुषु शय्यातरपिण्डादिष्ववस्थितेषु कल्पेषु स्थिताः शेषेषु चाऽऽचेलक्यादिषु षट्स्व स्थितास्तत्कल्पोऽस्थितकल्पः । उक्तं च
'ठिय अडिओ य कप्पो, आवेलकाइएस ठाणेसु ।
- सव्वेसु ठिया पढमो, चउ ठिय छसु अडिया बीओ ।। (पञ्चव० गा० १४९९ ) आचेलक्यादीनि च दश स्थानान्यमूनि -
'आचेल कुदे सियसिज्जायररायपिंड किकम्मे
1
व पजिट्ठपडिकमणे, मापज्जोसवणकप्पे | (पञ्चव० गा० १५०० ) चत्वारश्वावस्थिताः कल्पा इमे -
'सिज्जायरपिंडम्मी, चाउज्जामे य पुरिसजेट्ठे य I
किकम्मरस य करणे, चत्तारि अवट्टिया कप्पा | (पञ्चाश० १७ गा० १० ) लिङ्गद्वारे-नियमतो द्विविधेऽपि लिङ्गे भवति । तद्यथा - द्रव्यलिङ्गे भावलिङ्गे च । एकेनापि विना विवक्षितकल्पोचितसामाचार्ययोगात् । लेश्याद्वारे - तेजः प्रभृतिकामूत्तरासु तिसृषु विशुद्धासु लेश्यासु परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनः सर्वास्वपि कथञ्चिद् भवति, तत्राऽपीतरास्वविशुद्धलेश्यासु नात्यन्तसंक्लिष्टासु वर्तते, तथाभूतासु वर्तमान न प्रभूतं कालमवतिष्ठते, किन्तु स्तोकम्, यतः स्ववीर्यवशात् झटित्येव ताभ्यो व्यावर्तते । अथ प्रथम एव कस्मात् प्रवर्तते । उच्यते - कर्मवशात् । उक्तं च
?
* सासु विसुद्धा, पडिवज्जइ तीसु न उण सेसासु । पुव्व पडिवन्नओ पुण, हुज्जा सव्वासु वि कहंचि ॥ नच्चतसंकिलिद्वासु थोवकालं हंदि इयरेसु
I
चित्ता कम्माण गई, तहा वि विरियं फलं देह || (पञ्चव० गा० १५०३-४) ध्यानद्वारे — धर्मध्यानेन प्रवर्तमानेन परिहारविशुद्धिकं कल्पं प्रतिपद्यते । पूर्वप्रतिपन्नः पुनरार्तरौद्रयोरपि भवति केवलं प्रायेण निरनुबन्धः । उक्तं च
१ स्थितोऽस्थित कल्पः भाचेलक्यादिकेषु स्थानेषु । सर्वेषु स्थिताः प्रथमः चतुर्षु स्थिताः षट्त्रस्थिता द्वितीयः ॥ २ आचेलक्यौद्दं शिकशय्यानरराजपिण्डकृतिकर्माणि । व्रतज्येष्ठप्रतिक्रमणानि मासपर्यु - षणकल्प || ३ शय्यातरपिण्डे चतुर्यामे च पुरुषज्येष्ठये च । कृतिकर्मणश्च करणे चत्वारोऽत्रस्थिताः 'कल्पाः ॥ ४ पञ्चाशके प्रवचनसारोद्वारे च- 'ठिकप्पो मज्झिमाणं तु' इत्येवं पाठः ।। ५ लेश्यासु त्रिंशुद्धासु प्रतिपद्यते तिसृषु न पुनः शेषासु । पूर्वप्रतिपन्नकः पुनभवेत् सर्वास्त्रपि कथति ॥ नात्यन्तसंकिलष्टासु स्तोककालं चहन्दि इतरासु । चित्रा कर्मणां गतिः तथापि वीर्यं फलं ददाति ॥ ६ इयरासु घ० पञ्चवस्तु च ॥