________________
१५३
१२]
- षडशीतिनामा चतुर्थः कर्मग्रन्थःः। आत्मनः कथां यावद् यदास्ते तद् यावत्कथं यावज्जीवमित्यर्थः, यावत्कथमेव यावत्कथिकम् , एतच्च भरतैरवतेषु प्रथम चरमवर्जमध्यमद्वाविंशतितीर्थकरतीर्थान्तर्गतसाधना महाविदेहतीर्थकरमुनीनां चावसेयम् , तेषामुपस्थापनाया अभावात् । 'छेय" त्ति छेदोपस्थापना, तत्र पूर्वपर्यायस्य छेदेनोपस्थापना-महाव्रतेवागेपणं यत्र चारित्रे तत छेदोपस्थापनम् , भरतैरवतप्रथमचरमतीर्थकरतीर्थ एव नान्यत्र । तच्च द्विधा-सातिचारं निरतिचारं च । तत्राऽनतिचारमित्वरसामायिकस्य शेक्षकस्य यद् आरोप्यते, तीर्थान्तरं वा सङ्क्रामतः साधोः, यथा श्रीपार्श्वनाथतीर्थाद् वर्धमानस्वामितीर्थ सङ्क्रामतः पञ्चयामधर्मप्रतिपत्तौ । सातिचारं पुनर्यद् मलगुणघातिनः पुनर्वतोच्चारणम् । “परिहारे" त्ति 'परिहारविशुद्धिक' परिहरणं परिहारस्तपोविशेषस्तेन विशुद्धिर्यस्मिश्चारित्रे तत् परिहारविशुद्धिकम् . तच्च द्विधा-निर्विशमानक निविष्टकायिकं च । तत्र निर्विशमानका विवक्षितचारित्रसेवकाः, निर्विष्टकायिका आसेवितविवक्षितचारित्रकायिकाः, तदव्यतिरेकात् चारित्रमप्येवमुच्यते।
इह नवको गणः, तत्रैको वाचनाचार्यश्चत्वारो निर्विशमानकाश्चत्वारश्वाऽनुचारिणः । निर्विशमानकानां चायं तपोविशेषः
"परिहारियाण उ तवो. जहन्न मज्जो तहेव उक्कोमो । सीउण्हवासकाले, भणिओ धीरेहिँ पत्तेयं ॥ तत्थ जहन्नो गिम्हे, चउत्थ छटुं तु होइ मजिमओ । अट्ठममिह उक्कोसो, इत्तो सिसिरे पवक्खामि ॥ सिसिरे उ जहन्नाई, छट्ठाई दसमचरिमगो होइ । • वासासु अट्ठमाई, बारसपज्जंतगो नेओ ॥ पारणगे आयामं, पंचसु गहो दोस(सु)ऽभिग्गहो भिक्खे । कप्पट्ठिया वि पइदिण, करेंति एमेव आयामं ॥ एवं छम्मास तवं, चरिउं परिहारिया अणुचरंति । अणुचरगे परिहारिय पयट्ठिए जाव छम्मासा ॥
१०मपश्चिमव० क० ख० ग० घ० ० ॥ २ मुत्थापनाया अ० क० ख०म० ज० ॥ ३ छे हैनोत्था० ख० ० । छेदोत्थाप० ग० ॥ ४ व्रतेषु यत्र क ख ग घ ङ० ॥ ५ परिहारिकाणां तु तपः जघन्य मध्यमं तथैवोत्कृष्टम् । शीतोष्णवर्षाकाले भणितं धीरःप्रत्येकम् ।। तत्र जघन्यं ग्रीष्मे चतुर्थ षष्ठं त भवति मध्यमम । अष्टममिह उत्कृष्टमितः शिशिरे प्रवक्ष्यामि ॥ शिशिरे तु जघन्यादि षष्ठादि दशमचरमकं भवति । वर्षासु अष्टमादि द्वादशपर्यन्तकं ज्ञेयम् ।। पारणके आचाम्लं पञ्चसु ग्रहः द्वयोरभिग्रहो मिक्षायाम् । कल्पस्थिता अपि प्रतिदिनं कुर्वन्ति एवमेवाचामाम्लम् ॥ एवं षण्मासान तपश्चरित्वा परिहारिका भनुचरन्ति । अनुचरकाः परिहारिकपदस्थिता यावत् षण्मासान् ।। ६ प्रवचनसारोद्धारे तु-०परिद्विए-परिस्थिताः इति ।