________________
१४२] देवेन्द्रसूरिविरचितः स्त्रोपज्ञटोकोपेतः
गाथा विभंग" त्ति विपरीतो भङ्गः-परिच्छित्तिप्रकारो यस्मिंस्तद् विभङ्गम् , विपर्यस्तमवधिज्ञानं विभङ्गज्ञानमुच्यते इत्यर्थः । सह आकारेण-जातिवस्तुप्रतिनियतग्रहणपरिणामरूपेण "'आगारो उ विसेसो" इति वचनाद् विशेषेण वर्तन्त इति साकागणि । अयमर्थः- वक्ष्यमाणानि चत्वारि दर्शनान्यनाकाराणि, अनि च पञ्च ज्ञानानि साकाराणि | तथाहि-सामान्यविशेषात्मकं हि सकलं ज्ञेयं वस्तु, कथम् ? इति चेद् उच्यते-दूरादेव हि शालतमालतालबकुलाशोकचम्पककदम्बजम्बुनिम्बादिविशिष्टव्यक्तिरूपतयाऽनवधारितं तरुनिकरमवलोकयतः सामान्येन वृक्षमात्रप्रतीतिजनकं यदपरिस्फुटं किमपि रूपं चकास्ति तत सामान्यरूपमनाकारं दर्शनमुच्यते, "निर्विशेष विशेषाणामग्रहो दर्शनमुच्यते" इति वचनप्रामाण्यात् । यत् पुनस्तस्यैव निकटीभूतस्य तालतमालशालादिव्यक्तिरूपतयाऽवधारितं तमेव महीरुहसमृहमुत्पश्यतो विशिष्टव्यक्तिप्रतीतिजनकं परिस्फुट रूपमाभाति तद् विशेषरूपं साकारं ज्ञानम् अप्रमेयप्रभावपरमेश्वरमवचनप्रवीणचेतसः प्रतिपादयन्ति, सह विशिष्टाकारेण वर्तत इति कृत्वा । तदेवं प्रतिप्राणिप्रसिद्धप्रमाणाबाधितप्रतीनिवशात् सर्वमपि वस्तुजातं सामान्यविशेषरूपद्वयात्मकं भावनीयमिति ।।११।। , सामय छेय परिहार सुहम अहवाय देस जय अजया ।
चक्खु अचाखू आही, केवलदंसण अणागारा ॥१२॥ समानां-ज्ञानदर्शनचारित्राणामायः--लाभः समायः समाय एव सामायिक विनयादेगकृतिगणत्वाद् इकण्प्रत्ययः, यद्वा समः रागद्वेषविप्रमुक्नो यः सर्वभृतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्य आयः ममायः, समो हि प्रतिक्षणमपूर्वनिदर्शनचरणपयाय भवाटवीभ्रमणसंक्लेशविच्छेदकैर्निरूपमसुखहेतुभिरधःकृतचिन्तामणिकामधेनुकल्पद्र मोपमेयुज्यते समाय एवं सामायिकं मूलगुणानामाधारभतं सर्वसाबद्यवितिरूपं चारित्रम् । यदाह वाचकमुख्य:
सामायिक गुणानामाधारः खमिव सर्वभावानाम् । न हि सामायिकहीनाश्चरणादिगुणान्विता येन ॥ तस्माज्जगाद भगवान् , सामायिकमेव निरुपमोपायम् ।
शारीरमानसानेकदुःखनाशस्य मोक्षस्य ॥ - यद्यपि च सर्वमपि चारित्रमविशेषतः सामायिकं तथापि च्छेदादिविशेपैविशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते । प्रथमं पुनरविशेषणात् सामान्यशब्द एवावतिष्ठते सामायिकमिति । तच द्विधा-इत्वरं यावत्कथिकं च । तत्रेत्वरं भाविव्यपदेशान्तरत्वात् स्वल्पकालम् , तच्च प्रथमचरमतीर्थकरतीर्थ भरतैरवतेषु यावद् अद्यापि शैक्षकस्य महाव्रतानि नारोप्यन्ते तावद् विज्ञेयम् ।
१ आकारस्तु विशेषः ।।