________________
१०-११ ] पडशीतिनामा चतुर्थः कर्मग्रन्थः
[ १५१ प्रयोगः-मतिज्ञानं श्रुतज्ञानम् अवधिज्ञानं मनःपर्यवज्ञानं केवलज्ञानम् , तथा विभङ्गमत्यज्ञानश्रुताज्ञानानि । एतानि पञ्च ज्ञानानि त्रीण्यज्ञानानि साकाराणि वर्तन्त इति वाक्यार्थः । भावार्थस्त्वयम्- "बुधिं मनिंच ज्ञाने" मननं मतिः, यद्वा मन्यते-इन्द्रियमनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति मतिः-योग्यदेशावस्थितवस्तुविषय इन्द्रियमनोनिमित्तोऽवगमविशेषः, (मतिश्च सा ज्ञान च मतिज्ञानम् । श्रवणं श्रुतम्-अभिलापप्लावितार्थग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु घटशब्दाभिलाप्यं जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतयाप्रधानीकृतत्रिकाल. साधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः, श्रतं च तद् ज्ञानं च श्रुतज्ञानम् । अवधानमवधिः-इन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम् , अथवा अवशब्दोऽधःशब्दार्थः अव-अधोऽधो विस्तृतं वस्तु धीयते-परिच्छिद्यतेऽनेनेत्यवधिः, यद्वा अवधिः-मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः, अवधिश्च तद् ज्ञानं च अवधिज्ञानम् । परिः-सर्वतोभावे, अवनमवः, "तुदादिभ्योऽनको" इत्यधिकारे "अकितौ च" इत्यनेनौणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्यवो मनःपर्यवः सर्वतस्तत्परिच्छेद इत्यर्थः, मनःपर्यवश्च तद् ज्ञानं च मनःपर्यवज्ञानम् । यद्वा मनःपर्यायज्ञानम् , तत्र संज्ञिभिर्जीवः काययोगेन गृहीतानि मनःप्रायोग्यवर्गणाद्रव्याणि चिन्तनीयवस्तुचिन्तनव्यापृतेन मनोयोगेन मनस्त्वेन परिणमय्याऽऽ. लम्ब्यमानानि मनासीत्युच्यन्ते, तेषां मनसा पर्यायाः-चिन्तनानुगताः परिणामा मनःपर्यायाः, तेषु तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानम् । यद्वा आत्मभिर्वस्तुचिन्तने व्यापारितानि मनांसि पर्येति-अवगच्छतीति मनःपयोयम् "कर्मणोऽण" (सि. ५-३-१४) इत्यणप्रत्ययः, मन:पर्यायं च सद् ज्ञानं च मनःपर्यायज्ञानम् । केवलम्-एक मत्यादिरहितत्वात् " 'नट्ठम्मि उ छाउ. मथिए नाणे" (आ० नि० गा० ५३६) इति परममुनिप्रणीतवचनप्रामाण्यात् , शुद्धं वा केवलं तदावरणमलकलङ्कपङ्कापगमात् , सकलं वा केवलं तत्प्रथमतयैव निःशेषतदावरणविगमतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलम् अनन्यसदृशत्वात् , अनन्तं वा केवलं ज्ञेयानन्तत्वाद् अपर्यवसितानन्तकालावस्थायित्वाद्वा, निर्व्याघातं वाकेवलं लोकेऽलोके वाक्वापि व्याघाताभावात् , केवलं च तद् ज्ञानं च केवलज्ञानं-यथावस्थितसमस्तभूतभवद्भाविभावावभासि ज्ञानमिति भावना। तथा मतिभुतावधिज्ञानान्येव मिथ्यात्वपङ्ककलुपिततया यथाक्रमं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानव्यपदेशभाञ्जि भवन्ति । उक्तं च
'आयत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तम् ॥ (प्रश० का० २२७) इति ।
१ नम्टे तु छानस्थि के ज्ञाने ॥