________________
१५० देवेन्द्रसूरिविरचित स्वोपज्ञटीकोपेतः
[ गाथ। इह गतिशब्दः प्रत्येकं सम्बध्यते, ततः सुरगतिः नरगतिः तिर्यग्गतिः नरकगतिः । तत्र सुष्टु राजन्त इति सुराः; यदि वा सुष्ठु रान्ति-ददति प्रणतानामभीप्सितमर्थ लवणाधिपसुस्थित इव लवणजलधौ मार्ग जनार्दनस्येति सुराः; यद्वा 'सुरत् ऐश्वर्यदीप्त्योः' सुरन्तिविशिष्टनैश्चर्यमनुभवन्ति दिव्याभरपासम्भारसमृद्धया सहजनिजशरीरकान्त्या च दीप्यन्त इति सुराः, सुरेषु विपये' गतिः सुरगतिः । नृणन्ति-विवेकमासाद्य नयधर्मपरा भवन्तीति नराःमनुष्यास्तेषु विषये गतिर्नरगतिः । “तिरि" त्ति प्राकृतत्वात् तिरोऽश्वन्ति-गच्छन्तीति तिर्यश्चः, व्युत्पत्तिनिमिसं चैतत् प्रवृत्तिनिमित्तं तिर्यग्गतिनाम, एते चैकेन्द्रियादयः, ततस्तिर्यक्षु विषये गतिस्तिर्यग्गतिः । नरान् उपलक्षणत्वात् तिरश्चोऽपि प्रभूतपापकारिणः कायन्तीव आह्वयन्तीवेति नरका:-नरकावासास्तत्रोत्पन्ना जन्तवोऽपि नरकाः, नरको वा विद्यते येषां ते "अभ्रादिभ्यः” (सि०७-२-४६) इत्यप्रत्यये नरकास्तेषु विषये गतिर्नरकगतिः ।। इहापि इन्द्रियशब्दस्य प्रत्येकं सम्बन्धाद् एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रिया इति २ । पट कायाः-भूः-पृथ्वी जलम्-आपः ज्वलनं-तेजः अनिलः-वायुः “वण" त्ति वनस्पतिः साः-द्वीन्द्रियादयः, ततः प्रत्येकं कायशब्दस्य योगात् पृथिव्येव कायः शरीरं यस्य स पृथिवीकायः, एवमप्कायः तेजस्कायः वायुकायः वनस्पतिकायः त्रसकाय इति ३ । 'च' समुच्चये । योगशब्दस्य प्रत्येकं सम्बन्धात् त्रयो योगाः, तथाहिमनोयोगः वचनयोगः तनुयोगः। तत्र तनुयोगेन मनःप्रायोग्यवर्गणाभ्यो गृहीत्वा मनोयोगेन मनस्त्वेन परिगमितानि वस्तुचिन्ताप्रवर्तकानि द्रव्याणि मन इत्युच्यन्ते, तेन मनसा सहकारिकारणभूतेन योगो मनोयोगः, मनोविषयो वा योगो मनोयोगः । उच्यत इति वचनं भाषापरिणामापन्नः पुद्गलद्रव्यसमूह इत्यर्थः, तेन वचनेन सहकारिकारणभूतेन योगो वचन. योगः, वचनविषयो वा योगो वचनयोगः । तनोति-विस्तारयत्यात्मप्रदेशानस्यामिति तनुरौदारिकादिशरीरं तया सहकारिकारणभूतया योगस्तनुयोगः, तनुविषयो वा योगस्तनुयोगः ४ ॥१०॥
वेय नरिस्थिनपुसा, कसाय कोहमयमायलोभ त्ति ।
महसुयऽवहिमणकेवल विभंगमहसुअनाणसागारा।। ११ ॥
वेदशब्दस्य प्रत्येकं सम्बन्धात् त्रयो वेदाः-नरवेदः स्त्रीवेदः नपुंसकवेदः । तत्र नरस्यपुरुषस्य स्त्रियं प्रति अभिलापो नरवेदः, स्त्रियः-योषितः पुरुषं प्रत्यभिलाषः स्त्रीवेदः, नपुसकस्य-पण्डस्य-स्त्रीपुरुषो प्रत्यभिलाषो नपुंसकवेदः ५ । कषायाश्चत्वारः-क्रोधकषायः "मद" ति मदो मानोऽहङ्कारो गर्व इत्यर्थः मानकषायः मायाकषायः लोभकषायः । इतिशब्दः कषायाजामनन्तानुबन्ध्यादिबहुभेदसूचनार्थः, सूत्रे च "मायलोभ' त्ति हस्वत्वं प्राकृतत्वात् ६ । “मइसुयऽवहि" इत्यादि । इहाऽवधीत्यत्राऽकारलोपाद् ज्ञानशब्दस्य च प्रत्येकं सम्बन्धाद् एवं