________________
१३०
२-३ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः । णमनहेतुः शक्तिविशेषः, सा च विषयभेदात् पोढा-आहारपर्याप्तिः १ शरीरपर्याप्तिः २ इन्द्रियपर्याप्तिः ३ उच्छ्वासपर्याप्तिः ४ भाषापर्याप्तिः ५ मनःपयोप्तिः ६ चेति । तत्र यया वाह्यमाहारमादाय खलरमरूपतया परिणमयति सा आहारपर्याप्तिः १ । यया रसीभूतमाहारं रसामुग्मांसमेदोऽस्थिमजाशुक्रलक्षगसप्तधातुरूपतया परिणामयति सा शरीरपर्याप्तिः २ । यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रिय पर्याप्तिः ३ । यया पुनरुच्छ्वासप्रायोग्यवर्गणालिकमादाय उच्छवासरूपतया परिणमय्याऽऽलम्ब्य च मुञ्चति सा उच्छ्वासपर्याप्तिः ४ । यया तु भाषाप्रायोग्यवर्गणाद्रव्यं गृहीत्वा भाषात्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति सा) भाषापर्याप्तिः ५ । यया पुनर्मनोयोग्यवर्गणादलिकं गृहीत्वा मनस्त्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति सा मनःपर्याप्तिः ६ । एताश्च यथाक्रममेकेन्द्रियाणां द्वीन्द्रियादीनां संज्ञिनां च चतु:पञ्चपट्सङ्ख्या भवन्ति । यदभाणि
'आहारसरीरिदिय, पञ्जत्ती आणपाणभासमणे ।
चत्तारि पंच छ प्पि य, एगिदियविगलसन्नीणं ॥ पर्याप्तयो विद्यन्ते येषां ते पर्याप्ताः, "अभ्रादिभ्यः" (सि० ७-२-४६ ) इति मत्वर्थीयः अप्रत्ययः, स्वार्थिककप्रत्ययोपादानात् पर्याप्तकाः । ये पुनः स्वयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्याप्तकाः, ते च द्विधा लब्ध्या करणैश्च । तत्र येऽपर्याप्तका एव सन्तो नियन्ते न पुनः स्वयोग्यपर्याप्तीः सर्ग अपि समर्थयन्ते ते लब्ध्यपर्याप्तकाः, ये पुनः करणानि-शरीरेन्द्रियादीनि न तावद् निर्वर्तयन्ति अथ चावश्यं पुरस्ताद् निर्वर्तयिष्यन्ति ते करणापर्याप्तकाः । ... इह चैवमागमः
लब्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव म्रियन्ते नार्वाग् , यस्मादागामिभवायुवा प्रियन्ते सर्व एव देहिनः, तच्चाऽऽहारशरीरेन्द्रियपर्याप्तिपर्याप्तानामेव बध्यते ।
इति ॥२॥ तदेवं निरूपितानि जीवस्थानानि । अर्थतेष्वेव जीवस्थानेषु गुणस्थानानि प्रचिकटयिपुराह
पायरअसन्निविगले, अपजि पढमविय सन्निअपज्जते ।।
अजयजुय सन्निपज्जे, सव्वगुणा मिच्छ सेसेसु ॥ ३ ।। इह चतुर्दश गुणस्थानानि भवन्ति । तद्यथा-मिथ्याष्टिगुणस्थानं १ सासादनसम्यग्दष्टिगुणस्थानं २ सम्बग्मिथ्यादृष्टिगुणस्थानम् ३ अविरतसम्यग्दृष्टिगुणस्थानं ४ देशविरतिगुणस्थान ५ प्रमत्तसंयतगुणस्थानम् ६ अप्रमत्तसंयतगुणस्थानम् ७ अपूर्वकरणगुणस्थानम् ८ . १ आहारशरीरेंद्रियाणि पर्याप्तय आनप्राणभाषामनांसि । चतस्रः पञ्च षडपि च एकेन्द्रियविकलसंज्ञिनाम्॥