________________
१३६
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा 'चउदसजियठाणेसु, चउदस गुणठाणगाणि १ जोगा य २ । उवयोग ३ लेस ४ बंधु ५ दउ ६ दीरणा ७ संत ८ अट्ट पए ॥ चउदसमग्गणठाणेसु, मूलपएसु बिसटि इयरेसु । जीय १ गुण २ जोगु ३ वओगा४ लेस ५ ऽष्पबहु ६ च छट्ठाणा ॥ चउदसगुणठाणेसु, जीय १ जोगु २ वओग ३ लेस ४, बंधा ५ य ।
बंधु ६ दयु ७ दीरणाओ८, संत हऽप्पबहु१० च दस ठाणा ।। इति ।। १ ॥ - तत्र यथोद्देशं निर्देश इति न्यायात् प्रथमं तावद् जीवस्थानानि निरूपयन्नाह--
इह मुहमवायरेगिदिबितिचउअमनिसनिपचिंदी।
अपजत्ता पजत्ता, कमेण च उदस जियद्वाणा ॥२॥ 'इह' अस्मिन् जगति अनेन क्रमेण चतुर्दश जीवस्थानानि प्राग्निरूपितशब्दार्थानि भवन्ति । केन क्रमेण ? इति चेद्, इत्याह-सूक्ष्मवादरैकेन्द्रियद्वित्रिचतुरसंज्ञिसंज्ञिपञ्चेन्द्रियाः, एते च सर्वेऽपि प्रत्येकं पर्याप्तका अपर्याप्तकाश्चेति । तत्र एक स्पर्शनलक्षणमिन्द्रियं येषां त एकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतयः, ते च प्रत्येकं द्वधा-सूक्ष्मा बादराश्च । सूक्ष्मनामकर्मोदयात् सूक्ष्माः सकललोकव्यापिनः, बादरनामकर्मोदयाद् बादराः ते च लोकप्रतिनियतदेशवर्तिनः । द्वित्रिचतुरसंज्ञिसंज्ञिपञ्चेन्द्रिया इति, इन्द्रियशब्दस्य प्रत्येकं योगाद् द्वीन्द्रियाः त्रीन्द्रियाः चतुरिन्द्रिया असंज्ञिसंज्ञिभेदभिन्नाश्च पञ्चेन्द्रियाः । तत्र द्वे स्पर्शनरसनलक्षणे इन्द्रिये येषां ते द्वीन्द्रियाः कृमिपूतरकचन्दनकशङ्खकपर्दजलौकाप्रभृतयः । त्रीणि स्पर्शनरसनघ्राणरूपाणि इन्द्रियाणि येषां ते त्रीन्द्रियाः कुन्थुमत्कुणयुकागर्दभेन्द्र गोपकमत्कोटकादयः । चत्वारि स्पर्शनरसनघ्राणचक्षुलेक्षणानि इन्द्रियाणि येषां ते चतुरिन्द्रियाः भ्रमरमक्षिकामशकवृश्चिकादयः । पञ्च स्पर्शनरसनघ्राणचक्षःश्रोत्रलक्षणानि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः मत्स्य मकरेभकलभसारसहंसनरसुरनारकादयः, ते च द्विविधाः-संज्ञिनोऽमंज्ञिनश्च । तत्र संज्ञान संज्ञा-भूतभवद्भाविभावस्वभावपर्यालोचनम् , “उपसर्गादातः” (सि० ५-३-११०) इत्यङ्प्रत्ययः. सा/ विद्यते येषां ते संज्ञिनः-विशिष्टस्मरणादिरूपमनोविज्ञानभाज इति यावत् , तद्विपरीता असंज्ञिन:-विशिष्टस्मरणादिरूपमनोविज्ञानविकला इत्यर्थः । एते च सूक्ष्मे केन्द्रियादयः प्रत्येकं द्विधा-पर्याप्तका अपर्याप्तकाश्च । पर्याप्तिर्नाम-पुद्गलोपचयजः पुदलग्रहणपरि.
१ चतुर्दशजीवस्थानेषु चतुर्दश गुणस्थानकानि योगाश्च। उपयोगलेश्याबन्धोदयोदीरणामत्ता अष्ट पदानि॥ चतुर्दशमार्गणास्थानेषु मूलपदेषु द्विषष्टिरितरेषु । जीवगुणयोगो योगा ले गाऽल्पबहुत्वं च षट् स्थानानि ॥ चतुर्दशगुणास्थानेषु जीवयोगोपयोगलेश्याबन्धाश्च । बन्धोदयोदीरणाः सत्ताऽल्पबहुत्वं च दश स्थानानि ।।