________________
२३-२४] बन्धस्वामित्वाख्यस्तृतीयः कर्मग्रन्थः ।
१२९ मिथ्यात्वे सप्तदशोत्तरशतबन्धः कर्मस्तव उक्तम्तथाऽभव्योऽसंज्ञी च सामान्यतो मिथ्यात्वे च सप्तदशोत्तरशतं वध्नाति । सासादने पुनरसंज्ञी संजिवन , एकोत्तरशतबन्धक इत्यर्थः । अनाहारके तु मार्गणास्थाने कार्मणकाययोगभङ्गः “विणु तिरिनराउ कम्मे वि" ( गा० १५) इत्यादिना योगमार्गणास्थाने प्रतिपादितोऽवगन्तव्यः, कार्यणकाययोगस्थस्यैव संसारिणोऽनाहारकत्वात् । कार्मण भङ्गश्चायं / विंशत्युत्तरशतमध्यादाहारकद्विकदेवायुनरकत्रिकतियग्नरायुःप्रकृत्यटकं मुक्त्वा शेषस्य द्वादशोत्तरशतस्याऽनाहारके सामान्येन बन्धः । तथा जिननाम सुरद्विकं वैक्रियद्विकं च द्वादशोत्तरशतमध्याद् मुक्त्या शेपस्य सप्तोत्तरशतस्यानाहारके मिथ्यादृष्टौ बन्धः। तथा सूक्ष्मादित्रयोदश प्रकृतीमुक्त्वा शेषायाश्चतुर्नवतेः सासादनस्थेऽनाहारके बन्धः । तथाऽनन्तानुवन्ध्यादिचतुर्विशतिप्रकृतीचतुर्नवतेमध्याद् मुक्त्वा शेषायाः सप्ततेर्जिननामसुरद्विकवैक्रियद्विकयुक्तायाः पञ्चसप्ततेरविरतेऽनाहारके बन्धः । तथा सयोगिनि केवलिसमुद्घाते तृतीयचतुर्थपञ्चमसमयेष्वनाहारक एकस्याः सातप्रकृतेवन्धः ।। २३ ।।
__ अथ प्राग यदुक्तं लेश्याद्वारे-"साणाइसु सव्वहिं ओहो" ति (गा०२१) “सासादनादिषु गुणस्थानेषु सर्वत्र लेश्यापटके ओघो द्रष्टव्यः" इति, तत्र न ज्ञायत आदिशब्दात् कस्यां लेश्यायां कियन्ति गुणस्थानानि गृह्यन्ते ? इत्यतो लेश्याम गुणस्थानकान्युपदर्शयन् प्रकरणसमर्थनां प्रकरणज्ञानोपायं चाह
तिस दुस सक्काइ गुणा, चउ सग तेर त्ति बंधसामित्तं ।
देविंदसूरिलिहियं, नेयं कम्मत्थयं सोउं ॥ २४ ।। व्याख्या-'तिसृषु' आद्यासु कृष्ण नीलकापोतलेश्यासु “चउ" इत्यादिना यथाक्रम सम्बन्धात् 'चत्वारि' मिथ्यात्वसासादनमिश्राविरतरूपाण्याद्यानि गुणस्थानानि प्राप्यन्ते, एतद्गुणस्थानचतुष्के परिणामविशेषतः षण्णामपि लेश्यानां भावात् । 'द्वयोः' तेजःपद्मलेश्ययोमिथ्यात्वादीनि सप्त गुणस्थानानि, तयोरप्रमत्तगुणस्थानकान्तमपि यावद्भावात् । शुक्ललेश्यायां त्रयोदश मिथ्यात्वादीनि गुणस्थानानि, तस्या मिथ्यादृष्टिगुणस्थानात् प्रभृति यावत् सयोगिकेवलिगुणस्थानक नावदपि भावात् । अयोगी त्वलेश्यः । इह च लेश्यानां प्रत्येकमसङ्खथ यानि लोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि, ततो मन्दाध्यवसायस्थानापेक्षया शुक्ललेश्यादीनामपि मिथ्यादृष्टयादौ सम्भवो न विरुध्यते । तथा कृष्णादिलेश्यात्रयं यदिहाविरतगुणस्थानकान्तमुक्तं तद् वृहदन्धस्वामित्वानुसारेण, षउशीतिके तु तस्य प्रमत्तगुणस्थानकान्तं यावदभिहितत्वात् । तथाहि