________________
१२८ ]
देवेन्द्रसूरिविरचितः सावचूरिकः
व्याख्या- 'आद्यलेश्यात्रिके' कृष्णनीलकापोतलेश्यात्रये वर्तमाना जीवाः 'ओघे' सामान्येन विंशत्युत्तरशतमाहारकद्विकोनं जातमष्टादशाधिकशतं तद् बध्नन्ति आहारकद्विकस्य शुभलेश्याभिर्वध्यमानत्वात् । ' तद्' अष्टादशाधिकशतं तीर्थकरनामोनं सप्तदशोत्तरशतं मिथ्यावगुणस्थानके बध्नन्ति | सासादनादिषु गुणस्थानकेषु पुनः सर्वत्र' लेश्यापट्केऽपि 'ओघः' सामान्यबन्धो द्रष्टव्यः । ततोऽत्र सासादनमिश्राऽविरतेष्वोघः कर्मस्तवोक्तः ।। २१ ।। तेऊ नरयनवूणा, उजोयचउ नरयवार विणु सुक्का | विणु नरबार पहा, अजिणाहारा इमा मिच्छे ।। २२ ।।
गाथा
व्याख्या - विंशत्युत्तरशतं नरकत्रिकादिप्रकृतिनवकोनं तेजोलेश्यायामोघत एकादशोत्तरं शतं बध्यते, कृष्णाद्यशुभलेश्याप्रत्ययत्वाद् नरकत्रिकादिप्रकृतिनवकवन्धस्य । इदमेवैकादशोतरशतं जिननामाहारकद्विकरहितं शेषमष्टोत्तरशतं मिथ्यात्वे वध्यते । सासादनादिषु षट्सु गुणस्थानकेषु ओघः विंशत्युत्तरशतमध्याद् उद्योतादिचतुष्कं नरकत्रिकादिद्वादशकं च मुक्त्वा शेषं चतुरुत्तरशतमोघतः शुक्ललेश्यायां बध्यते, उद्योतादिप्रकृतीनां तिर्यग्नरकप्रायोग्यत्वेन देवनरप्रायोग्यबन्धकैः शुक्ललेश्यावद्भिवध्यमानत्वात् । एतदेव चतुरुत्तरं शतं जिननामाहारकद्विकरहितं शेषमेकोत्तरशतं मिथ्यात्वे बव्यते । / सासादने तदीयैकोत्तरशतरूपवचन्वाद् उद्यो तादिप्रकृतिचतुष्टयापसारेण शेषाः सप्तनवतिर्थध्यते । मिश्रादिषु एकादशगुणस्थानकेषु तदवस्थः स्वस्वगुणस्थानीयो बन्धो द्रष्टव्यः । विंशत्युत्तरशतमध्याद् नरकत्रिकादिप्रकृतिद्वादशकं विना शेषमष्टोत्तरशतं पद्मलेश्यायामोघतो बध्यते, तल्लेश्यावतां सनत्कुमारादिदेवानां तिर्यक्प्रायोग्यं बघ्नतामुद्योतादिप्रकृतिचतुष्कस्य बन्धसम्भवाद् नात्र तद्द्बन्धाभावः । एतदेवाष्टोत्तरशतं जिनHarafarei शे पश्चोत्तरशतं मिथ्यात्वे वध्यते । सासादनादिषु षट्सु गुणस्थानकेषु यथास्थित एकोत्तरशतादिरूपः स्वस्वघवन्धो द्रष्टव्यः । " अजिणाहारा इमा मिच्छे" ति प्रथमलेश्यात्रिकस्य "ओहे अड्डासयं" ( गा० २१) इत्यादिना निर्धारितत्वेने मास्तेजःपद्मशुक्ललेश्या मिथ्यात्वगुणस्थानके जिननामाहारकद्विकरहिता विज्ञेयाः, तेजोलेश्यादिषु नरकनवकाधूनो यः सामान्यबन्धः प्रतिपादितः स मिथ्यात्वगुणस्थानके जिनादिप्रकृतित्रयरहितो विधेय इत्यर्थः । तथा च दर्शितमेव || २२ || सम्प्रति भव्यादिद्वाराण्यभिधीयन्ते-
सव्वगुण भन्नसन्निसु, ओहु अभव्वा असन्नि भिच्छसमा । सासणि असन्नि सन्नि त्र्व कम्गो अणाहारे || २३ || व्याख्या-सर्वगुणस्थानकोपेते भव्ये संज्ञिनि च मार्गणास्थाने सर्वगुणस्थान कोषः कर्मस्वोक्तः | अभव्या असंज्ञिनश्च चिन्त्यमाना मिथ्यादृष्टिगुणस्थानकसमाः । अयमर्थः- यथा