________________
१८-२० । बन्धस्वामित्वाख्यस्तृतीयः कर्मग्रन्थः।
१२७ मार्गणास्थाने सासादनगुणस्थानम् , मिश्रमार्गणास्थाने मिश्रगुणस्थानम् , देशसंयममार्गणास्थाने देशविरतगुणस्थानम् . सूक्ष्मसम्परायसंयमे सक्ष्मसम्परायगुणस्थानम् । अत्र च स्वस्वगुणस्थानीयो बन्धः, यथा- मिथ्यात्वे ओघतो विशेषतश्च सप्तदशोत्तरशतम् , एवं सासादने एकोत्तरशतम् , मिश्रे चतुःसप्ततिः, देशे सप्तपष्टिः । सक्षमे सप्तदश । आहारक द्वारे-त्रयोदश गुणस्थानानि मिथ्यादृष्टयादीनि सयोगिकेवल्यन्तानि आहारके जीवे लभ्यन्ते, अयोगी त्वनाहारकः । तत्रोधतः विंशत्युत्तरशतम् , मिथ्यात्वे सप्तदशोत्तरशतम् , इत्यादि यायत सयोगिनि सातरूपैका प्रकृतिर्वन्धे भवति । एवं वेदादिषु मार्गणास्थानेषु गुणस्थानकान्युपदय सम्प्रति तेषु बन्धातिदेशमाह-निर्यानयगुणोहो" त्ति निजनिजगुणोघः, एतेषु वेदादिषु यानि स्वस्वगुणस्थानानि ते घोषः कर्मस्तयोक्तो बन्धो द्रष्टव्य इत्यर्थः । स च यथास्थानं भाक्ति एव ।। १९ ॥ - यच्च प्रागुक्तम् "अष्टौपशमिकसम्यक्त्वे गुणस्थानानि" इति तत्र कश्चिद्विशेपमाह
परमुवसमि वता, आउ न बंधंति तेण अजयगुणे ।
देवमणुआउहोणो, देसाइसु पुण मुराउ विणा ॥ २० ॥ व्याख्या--सर्वत्र वेदादिषु निजनिजगुणोधो वाच्य इत्युक्तं परमोपमिकेऽयं विशेषःऔपशमिके वर्तमाना जीवा आयुर्न बध्नन्ति तेनाऽयतगुणस्थानके देवमनुजायुां हीन ओषो वाच्यः, नरकतिर्यगायुपोः प्रागेव मिथ्यात्वसासादनयोरपनीतत्वान्न तीनता । तथा 'देशादिपु' देशविरतप्रमत्ताऽप्रमत्तेषु पुनरोधः सुरायुर्चिना ज्ञेयः । औपशमिकसम्यक्त्वं तूपशमश्रेण्यां प्रथम सम्यक्त्वलामे वा भवति जीवस्य । उक्तं च -
'उवसामगसेढिगयस्स होइ उवसामियं तु सम्मत्तं । जो वा अकयतिपुजो, अखवियमिच्छो लहइ सम्मं ॥
(विशेषा० गा० ५२६, २७३५ ) ननु क्षायोपशमिकोपशमिकसम्यक्त्वयोः कः प्रतिविशेषः ?, उच्यते-क्षायोपशमिके मिथ्यात्वदलिकवेदनं विपाकतो नास्ति प्रदेशतः पुनर्विधने, औपशमिके तु प्रदेशतोऽपि नास्तीति विशेषः ।। २० ।। उक्तं वेदादिषु बन्धस्वामित्वम् । अथ लेश्याद्वारमुच्यते
ओहे अट्ठारसयं, आहारदुगूण आइलेसतिगे । तं तित्थोणं मिच्छे, साणाइसु सव्वहिं ओहो ॥ २१ ॥
१ उपशमकश्रेणिगलम्य भवति औपशमिकं तु सम्यक्त्वम् । यो वाऽकृतत्रिपुञ्जोऽक्षपितमिथ्यात्वो लमते सम्यक्त्वम्।