________________
१२६
देवेन्द्रसूरिविरचितः सावचूरिकः
[ गाथा
अन्तिमे सयोगिकेवल्ययोगिकेवल्याख्ये गुणस्थानके भवतः, अत्रौधे एकस्य सातस्य बन्धः सयोगिनि च अयोगिनि शून्यम् । तथा मतिश्रुतयोः 'अवधिद्विके' च' अवधिज्ञानावधिदर्शनलक्षये 'अयतादीनि' अविरतसम्यग्दृष्ट्वादीनि क्षीण मोहपर्यवसानानि नव गुणस्थानकानि भवन्ति, सयोग्यादौ केवलोत्पच्या मत्यादेरभावात् तत्रयतोऽप्रमत्तादेर्मत्यादिमत आहारकद्विकस्यापि बन्धसम्भवाद् एकोनाशीतिः, विशेषचिन्तायामविरतादिगुणस्थानकेषु कर्मस्तवोक्तः सप्तसप्तत्यादिमितो बन्धो द्रष्टव्यः ||१८||
,
"अब उवसमि च वेयगि, खड़ए इक्कार मिच्छतिगि देसे । सुमि सठाणं तेरस, आहारगि नियनियगुणोहो || १६ ||
व्याख्या - इह 'अयतादि' इति पदं सर्वत्र योज्यते । ततोऽयतादीनि उपशान्तमोहान्तान्यष्टौ गुणस्थानान्योपशमिकसम्यक्त्वे भवन्ति, तत्र सामान्यत औपशमिकसम्यक्त्वे वर्तमानानां देवमनुजायु पर्यन्धाभावात् पञ्चसप्ततिः, अविरतेऽपि पञ्चसप्ततिः, देशे सुरायुग्बन्धात् षष्टिः, प्रमत्ते द्वापष्टिः, अगमचे अष्टपञ्चाशद् इत्यादि यावदुपशान्ते एकः । 'वेद' क्षायोपशमिकापरपर्यायेऽयतादीन्यप्रमत्तान्तानि चत्वारि गुणस्थानकानि, तत्रौघे एकोनाशीतिः, अविरते सप्तसप्ततिः, देशे सप्तषष्टिः प्रमत्ते त्रिषष्टिः, अप्रमत्ते एकोनषष्टिरष्टपञ्चाशद्वा । अतः परमुपशमश्रेणावोपशमिकं क्षपकश्रेणौ पुनः क्षायिकम्, क्षायोपशमिकसम्यक्त्वं तुदीर्णमिथ्यात्वक्षयेऽनुदीर्णमिध्यात्वोपशमे च भवतीति । उक्तं च
"मिच्छतं जमुहणं तं खीणं अगुइयं तु उबसंतं ।
मीसीभावपरिणयं, बेइज्जतं खओवसमं || (विशेषा० गा० ५३२)
तथा क्षायिकम्पत्वे अतादीनि अयोगिकेवलिपर्यवसानानि एकादश गुणस्थानकानि, तत्रौघे एकोनाशीतिः, अविरते सप्ततिः, देशे सप्तषष्टिः इत्यादि यावदयोगिनि शुन्यम् । क्षायिकसम्यक्त्वस्वरूपं त्विदम्
खीणे दंसणमोहे, तिविहम्मि विभवनियाणभूयम्मि | निष्पचवायलं, सम्मत्तं खाइयं होइ || (श्राव० प्र० गा० ४८)
तथा 'मिथ्यात्वत्रिके' मिध्यादृष्टिसास्वादनमिश्रलक्षणे 'देशे' देशविरते 'सूक्ष्ममपरावे 'स्वस्थानं' निजस्थानम् | अयमर्थः मिथ्यात्वमा गणास्थाने मिथ्यादृष्टिगुणस्थानम् सासादन
१ मिध्यात्वं यद् उदीर्णं तत् क्षीणमनुदितं तूपशान्तम् | मिश्रीभावपरिणतं वेद्यमानं क्षयोपशमम् ।। २ क्षीणे दर्शन मोहेत्रिविवेऽपि भवनिदानभूते । निष्प्रत्यवायमतुलं सम्यक्त्वं क्षायिक भवति ॥