________________
१६-१८ ]
बन्धस्वामित्वाख्यस्तृतीयः कर्मग्रन्थः ।
संजलणतिगे नव दस, लोभे चउ अजइ दु ति अनाणनिगे । बारस अचक्खुचक्खुसु पढमा अहखा चरम चा ॥ १७ ॥ व्याख्या- 'संज्वलनत्रिके' संज्वलनक्रोधमानमायारूपे नवाऽऽद्यानि गुणस्थानकानि । तत्र सामान्यबन्धाद् निवृत्तिवादरं यावद् वेदत्रिकन्यायेन विंशत्युत्तरशतादिको बन्धः, अनिवृत्तिबादरे तु प्रथमे भागे द्वाविंशतिः, द्वितीये पुवेदरहिता एकविंशतिः, तृतीये संज्वलनक्रोधरहिता विंशतिः, चतुर्थे संज्वलनमानरहिता एकोनविंशतिः, पञ्चमे संज्वलनमायारहिता अष्टादश । संज्वलवलोभस्य तु सूक्ष्मसम्परायेपि भावात् तत्र दश प्रथमानि गुणस्थानानि तत्र नव तथैव, दशमे तु सूक्ष्मसम्पराये ) सप्तदश प्रकृतयः | संयमद्वारे - 'अयते' असंयते चत्वारि आद्यानि गुणस्थानानि तत्र सामान्यतोऽविरतसम्यग्दृष्टेरपि सङ्गृहीतत्वाद् जिननामक्षेपात् सप्तदशोत्तरशतं जातमष्टादशोत्तरशतम्, मिथ्यात्वे सप्तदशोत्तरशतम्, सासादने एकोत्तरशतम्, मिश्र चतुःसप्ततिः, अविरते सप्तसप्ततिः । ज्ञानद्वारे - 'अज्ञानत्रिके' मत्यज्ञानश्रुताज्ञानविभङ्गरूपे
मिथ्यात्वसासादने, त्रीणि वा गुणस्थानकानि मिश्रेण सह । अयमाशयः - मिश्र ज्ञानां - शोऽज्ञानांशश्चास्ति, तत्र यदाऽज्ञानांशप्राधान्यविवक्षा तदाऽज्ञानत्रिके गुणस्थानकद्वयमेव, ज्ञानांशप्राधान्यविवक्षायां तु तृतीयं मिश्रमपि तत्रौघे सप्तदशोत्तरशतम्, मिध्यात्वे सप्तदशोत्तरशतम्, सासादने एकोत्तरशतम् मिश्र चतुःसप्ततिः । दर्शनद्वारे --चक्षुरचक्षुर्दर्शनयोः प्रथमानि द्वादश गुणस्थानानि परतस्तु चक्षुरचक्षुषोः सतोरप्यनुपयोगित्वेनाव्यापारात् । तत्रौघे विंशत्युत्तरशतम्, मिथ्यात्वे सप्तदशोत्तरशतम्, इत्यादि यावत् क्षीणमोहे सातबन्ध एकः । यथाख्याने चरमगुणस्थानकचतुष्कम्, तत्र सामान्यत एकः, उपशान्तमोहे एकः क्षीणमोहे एकः, सयोगिनि एकः, अयोगिनि शून्यम् ॥ १७ ॥
१२५
' मनाणि सग जयाई, समय छेय चड दुन्नि परिहारे । केवलगि दो चरमाऽजयाद नव महसुओहिदुगे || १८ ||
व्याख्या - मनःपर्यायाने सप्त 'यतादीनि ' प्रमत्तसंयतादीनि क्षीणमोहान्तानि । तत्र सामान्यत आहारकद्विकसहिता विपष्टिर्माता पञ्चषष्टिः प्रमत्ते त्रिषष्टिः इत्यादि यावत् क्षीणमोहे एकः केवलान्धः । सामायिके छेदोपस्थापने च चत्वारि यतादीनि गुणस्थानानि, तत्र सामान्यतः पञ्चषष्टिः प्रमत्ते त्रिपष्टिरित्यादि प्राग्वत्, सूक्ष्मसम्परायगुणस्थानकादो तु सूक्ष्मसम्परायादिचारित्रभावात् । तथा 'द्वे गुणस्थानके' प्रमत्ताप्रमत्तरूपे परिहारविशुद्धि चारित्रे नोत्तराणि तस्मिवारित्रे वर्तमानस्य श्रेण्यारोहणप्रतिषेधात् तत्र सामान्यतः पञ्चषष्टिः प्रमत्तं त्रिपष्टिः, अप्रमत्ते एकोनषष्टिरष्टपञ्चाशद्वा । ' केवल द्विके' केवलज्ञानकेवलदर्शनरूपे 'द्वे चरमे '
,