________________
[ गाथा
१२४
देवेन्द्रसूरिविरचितः सावचूरिकः सुरओहो वे उच्वे तिरियनराउरहिओ य तम्मिस्से ।
वेयतिगाइम बिय निय, कसाय नव दु चउ पंच गुणा ॥१६॥ व्याख्या- 'सुरोघः' सामान्यदेवबन्धो बैंक्रियकाययोगे द्रष्टव्यः । तद्यथा-सामान्येन चतुरग्रशतम्, मिथ्यात्वे व्युत्तरशतम्, सासादने पण्णवतिः, मिश्रे सप्ततिः, अविरते द्विसप्ततिः । तथा तन्मिश्री क्रियमिश्रे स एव सुरोधस्तिर्यग्नगयुष्करहितो वाच्यः । इह देवनारका निजायुःषण्मासावशेषा एघायुर्वघ्नन्ति, अतो वैक्रियमिश्रयोगे उत्पत्तिप्रथमसमयादनन्तरमपर्याप्तावस्थासम्भविनि आयुयबन्धाभावः । तथा चाऽत्रोघे द्वय त्तरशतम् , मिथ्यात्व एकोत्तरशतम् , सासादने. चतुर्नवतिः, अविरत एकसप्ततिः । वैक्रियमिश्रयोगो मिश्रता चाऽस्यात्र कार्मणकायेनैव सह मन्तव्या । अयमपि च मिथ्यात्वसासादनाऽविरतगुणस्थानकत्रय एव लभ्यते नान्यत्र । यद्यपि देशविरतस्याऽम्बडादेः प्रमतस्य तु विष्णुकुमारादे वे क्रियं कुर्वतो वैक्रियमिश्र_क्रियसम्भवः श्रूयते परं स्वभावस्थस्य वैक्रिययोगस्याऽत्र गृहीतत्वाद् अथवा स्वल्पत्वाद् अन्यतो वा कुतोऽपि हेतोः पूर्वाचायः स नोक्तः । एवं योगेषु वन्धस्वामित्वमुक्तम् । अथ वेदादिषु तदभिधित्सुः प्रथमं गुणस्थानकानि तेष्वाह-"वेयतिग" इत्यादि । 'वेदत्रिके' स्त्रीवेदपुवेदनपुसकवेदरूपे 'नव' नवसङ्ख्याकानि “संजलण" इत्याद्यग्रतनगाथा(१७)स्थ “पढम" इति पदस्यात्रापि, सम्बन्धात् 'प्रथमानि' मिथ्यात्वादीनि अनिवृत्तिवादरान्तानि गुणस्थानकानि भवन्ति, ततः परं वेदानामभावात् । एतेषु यः कर्मस्तवोक्त सामान्यबन्धः स द्रष्टव्यः । तद्यथा-सामान्यतो नानाजीवापेक्षया विंशत्युत्तरशतम् , मिथ्यात्वे सप्तदशोत्तरशतम् , मासादने एकोत्तरशतम् , मिश्रे चतुःसप्ततिः, अविरते सप्तसप्ततिः, देशविरते । सप्तपष्टिः, प्रमत्ते त्रिपष्टिः, अप्रमत्ते एकोनपष्टिरष्टपञ्चाशद्वा, निवृत्तिबादरे प्रथमभागेऽष्टपञ्चाशत् , भागपञ्चके पट्पश्चाशत् , सप्तमभागे पड्विंशतिः, अनिवृत्तियादरे आये भागे द्वाविंशतिः, एवमन्यत्रापि गुणस्थानकेषु यथासम्भवं कर्मस्तवोक्तो बन्धो वाच्यः । कपायद्वारे-आद्येऽनन्तानुबन्धिक्रोधमानमायालोभरूपे कषायचतुष्के द्वे प्रथमे मिथ्यात्वसासादनाख्ये गुणास्थानके तत्र तीर्थकरबन्धस्य सम्यक्त्वप्रत्ययत्वाद् आहारकद्विकवन्धम्य च संयमहेतुत्वाद् अनन्तानुबन्धिषु तदभावात सामान्येन सप्तदशोत्तरशतम् , मिथ्यात्वे सप्तदशोत्तरशतम् . सासादने एकोत्तरशतम् । द्वितीयेऽप्रत्याख्यानाख्ये कषायचतुष्के चत्वारि प्रथमानि मिथ्यात्वसासादनमिश्राऽविरतनामकानि गुणस्थानकानि, • तत्राहारकद्विकबन्धाभावेन सामान्येन अष्टादशोत्तरशतम् , मिथ्यात्वे सप्तदशोत्तरशतम् , सासादने एकोत्तरशतम , मिश्रे चतुःसप्ततिः, अविरते सप्तसप्ततिः । तृतीये प्रत्याख्यानावरणाख्ये कपायचतुष्के पञ्च आद्यानि मिथ्यात्वादीनि देशविरतान्तानि गुणस्थानकानि, देशविरते सप्तपष्टिः, शेषाणि तथैव ॥ १६ ॥