________________
१३-१५ ]
बन्धस्वामित्वाख्यस्तृतीयः कर्मग्रन्थः
नवोत्तरशतमध्याद् मुक्त्वा नरतिर्यगायुषी सूक्ष्मत्रिकादित्रयोदशप्रकृतीश्च नर तिर्यगायुषोरपर्याप्तत्वेन सासादने बन्धाभावात्, सूक्ष्मत्रिकादित्रयोदशकस्य तु मिथ्यात्व एव व्यवच्छिन्न
बन्धतया च ॥१४॥
१२३
अणचवीसाह विना, जिणपणजुय सम्मि जोगिणो सायं । विष्णु तिरिनराउ कम्मे, वि एवमाहारदुगि ओहो ||१५||
व्याख्या- प्रागुक्ता चतुर्नवतिरनन्तानुबन्ध्यादिचतुर्विंशतिप्रकृतीर्विना जिननामादिप्रकृतिपञ्चकता च पञ्चसप्ततिस्ता मौदारिक मिश्रकाययोगी सम्यक्त्वे बध्नाति । तथा सयोगिन औदारिक मिश्रस्थाः केवलसमुद्घाते द्वितीयपष्ठसप्तमसमयेषु सातमेवैकं बध्नन्ति । एवं गुणस्थानक - चतुष्क एवहारिक मिश्रयोगो लभ्यते नान्यत्र । अथ कार्मणयोगादिषु बन्धः प्रतिपाद्यते "विण तिरि" इत्यादि । यथौदारिकमि बन्धविधिरोघतो विशेषतवोक्तः एवं कार्मणयोगेऽपि निरायुषी विना वाच्यः कार्मणकाययोगे तिर्यग्नरायुषोर्थन्थाभावात् । कार्मणकाययोगो ह्यपान्तरालगतावुत्पत्तिप्रथमसमये च जीवस्य मिथ्यात्वसासादनाऽविरत गुणस्थानकत्रयोपेतस्य लभ्यते । उक्तं च-
'मिच्छे ससाणे वा, अविर यसम्मम्मि अब गहियमि ।
जंति जिया परलोए, सेसिक्कारस गुणे मुत्तु ॥ ( प्रव० गा० १३०६ )
तथा सयोगिनः केवलिसमुद्घाते तृतीयचतुर्थपञ्चमसमयेषु चेति गुणस्थानकचतुष्टय एव कार्मणकाययोगो नान्यत्र । ततो विंशत्युत्तरशतमध्याद् आहारकपट्कतिर्यग्नरायुःप्रकृतीमुक्त्वा शेषस्य द्वादशोत्तरशतस्य सामान्येन कार्मणकाययोगे बन्धः । तदेव द्वादशोत्तरशतं जिनादि - पञ्चकं विना शेषं सप्तोत्तरशतं कार्मणकाययोगे मिध्यादृशो बध्नन्ति । तदेव सप्तोत्तरशतं सूक्ष्मादित्रयोदश प्रकृतीमुक्त्वा शेषां चतुर्नवति कार्मणयोगे सासादना बध्नन्ति । चतुर्नवतिरेवाऽनन्तानुबन्ध्यादिचतुर्विंशतिप्रकृतीविना जिननामादिप्रकृतिपञ्चकस हिता च पञ्चसप्ततिस्तां कार्मणयोगेऽविरता बध्नन्ति । सयोगिनस्तु कार्मणकाययोगे सातमेवैकं बध्नन्ति । तथाऽऽहारककाययोगचतुर्दश पूर्वविदः, आहारकमिश्रकाययोगश्च तस्यैवाऽऽहारकशरीरस्य प्रारम्भसमये परित्यागसमये च औदारित्रेण सह द्रष्टव्यः । ततः ' आहारकद्विके ' ' आहारकशरीरतन्मिश्रलक्षणे योगद्वये ओघः कर्मस्तवोक्तः प्रमत्तगुणस्थानवर्ती त्रिषष्टिप्रकृतिबन्धरूपः । एतत् काययोगद्वयं हि लब्ध्युपजीवनात् प्रमत्तस्यैव न त्वप्रमत्तस्य ॥ १५॥
१ मिध्यात्वे सासादने वाऽविरतसम्यक्त्वेऽथवा गृहीते। यान्ति जीवाः परलोकं शेषैकादश गुणस्थानानि मुक्त्वा || २ व्यभावम्मि अहिगए अवा | प्रवचनसारोद्धारे त्वेवं पाठः ॥