________________
१२२
देवेन्द्रसूरिविरचितः सावचूरिकः
[ गाथा सूक्ष्मत्रसास्तेजोवायुकायजीवा इति । एवमुक्त इन्द्रियेषु कायेषु च बन्धः, सम्प्रति योगेषु तं प्रतिपादयन्नाह-"मणवयजोगे" इत्यादि । सूचकत्वात् सूत्रस्य सत्यादिमनोयोगचतुष्के तत्पूर्वके सत्यादिवाग्योगचतुष्के च ओघवन्धो विंशत्युत्तरशतादिलक्षणः कर्मस्तवोक्तो ज्ञेयः । तत्र सत्यादिस्वरूपं त्विदम्-सत्यं यथा अस्ति जीवः सदसदूपो देहमात्रव्यापीत्यादिरूपतया यथावस्थितवस्तुतत्त्वचिन्तन परम् । सन्यविपरीतं स्वसत्यम् । मिश्रस्वभावं सत्यासत्यम् , यथा-धवखदिरपलाशादिमिश्रेषु बहुप्रशोकवृक्षेश्वशोकवनमेवेदमिति विकल्पनापरम् । तथा यद् न सत्यं नापि मृषा तदसत्यामृषा, इह विप्रतिपत्तो सत्यां यद् वस्तुप्रतिष्ठाशया सर्वज्ञमतानुसारेण विकलप्यते, यथा अस्ति जीवः सदसट्रेप इत्यादि तत् किल सत्यं परिभाषितम् । यत् पुनर्विप्रतिपत्ती सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञमतोत्तीर्ण विकल्प्यते, यथा नास्ति जीव एकान्तनित्यो वा इत्यादि तद् असत्यम् । यत् पुनर्वस्तुप्रतिष्ठाशामन्तरेण स्वरूपमात्रपर्यालोचनपरम् , यथा हे देवदत्त ! घटमानय, गां देहि मह्यमित्यादिचिन्तनपरं तद् असत्यामृषा, इदं स्वरूपमात्रपर्यालोचनपरत्वाद् न यथोक्तलक्षणं सत्यं भवति नापि मृपेति । इदमपि व्यवहारनयमतेन द्रष्टव्यम् , निश्चयनयमतेन तु विप्रतारणादिबुद्धिपूर्वकमसत्येऽन्तर्भवति, अन्यथा तु सत्ये | "उरले" ति मनोवाग्योगपूर्वके औदारिककाययोगे नरभङ्गः "इय चउगुणेसु वि नरा" (गा० ६) इत्यादिना प्रागुक्तस्वरूपः । यथा-ओघे विंशत्युत्तरशतम् , मिथ्यात्वे सप्तदशोत्तरशतम् , सासादने एकोत्तरशतम् , मिश्रे एकोनसप्ततिः, अविरते एकसप्ततिः इत्यादि । मनोरहितवाग्योगे विकलेन्द्रियभङ्गः । केवलकाययोगे त्वेकेन्द्रियभङ्गः । "तम्मिस्से" त्ति 'तन्मिश्रे' औदारिकमिश्रयोगे ॥१३॥ सम्प्रति बन्ध उच्यते
आहारछग विणोहे, च उदससउ मिच्छि जिणपणगहीणं ।
सासणि चउनवह विणा, नरतिरिआऊ सुहुमतेर ।।१४।। व्याख्या-विंशत्युत्तरशतमाहारकादिप्रकृतिषट्कं विना शेषं चतुर्दशाधिकशतमोघबन्धे प्राप्यते । अयं भावार्थः-औदारिकमिश्रं कार्मणेन सह, तच्चापर्याप्तावस्थायां केवलिसमुदघातावस्थायां वा; उन्पत्तिदेशे हि पूर्वभवादनन्तरमागतो जीवः प्रथमसमये कार्मणेनैव केवलेनाहारयति, ततः परमौदारिकस्याप्यारब्धत्वादौदारिकेण कार्मणमिश्रेण यावद् शरीरस्य निष्पत्तिः; केवलिसमुद्घातावस्थायां द्वितीयपष्ठसप्तमसमयेषु कार्मणेन मिश्रमौदारिकमिति । अपर्याप्तावस्थायां च नाहारकादिषटकं बध्यते इति तनिषेधः । केवलिसमुद्घातावस्थायां पुनरेकस्य सातस्यैव बन्धोऽभिधास्यते । एतदेव चतुर्दशोत्तरशतमौदारिकमिश्रकाययोगी मिथ्यात्वे जिननामादिप्रकृतिपञ्चकहीनं शेषं नवोत्तरं शतं बध्नाति । स एव सासादने चतुर्नवतिं बध्नाति,