________________
८-१९ ] पन्धस्वामित्वाख्यतृतीयः कर्मग्रन्थः ।
१११ अडवन्न अपुब्वाइमि, निद्ददुगंतो छपन्न पणभागे । सुरदुग पणिदि सुखगइ, तसनव उरल विणु तणुवंगा ॥ समचउर निमिण जिण वनअगुरुलहुचउ छलंसि तीसंतो ।
चरिमे छवीसबंधो, हासरईकुच्छभयभेओ ॥ .- अनियट्टिभागपणगे, इगेगहीणो दुवीसविहबंधो ।
पुमसंजलणचउण्हं, कमेण छेओ सतर सुहुमे ॥ चउदंसणुच्चजसनाणविग्घदसगं ति सोलसुच्छेओ।
तिसु सायबंध छेओ, सजोगि बंधंतुणंतो य ।। (गाथा ३-१२) इति । एतासां दशानामपि गाथानां व्याख्यानं कर्मस्तवटोकातो बोद्धव्यम् । इत्योघबन्धः। इह कर्मस्तवोक्तगुणस्थानकबन्धाद् नरतिरश्चां मिश्राऽविरतगुणस्थानकयोरयं विशेषःकर्मस्तवे मिश्रगुणस्थानके चतुःसप्ततिः अविरतसम्यग्दृष्टिगुणस्थानके सप्तसप्ततिः तिरश्चा पुनर्मनुष्यद्विकौदारिकद्विक्रवज्रऋषभनाराचसंहननरूपप्रकृतिपञ्चकस्य बन्धाभावाद् मिश्रगुणस्थानके एकोनसप्ततिः, अविरतसम्यग्दृष्टौ सुरायुःक्षेपे सप्ततिः, नराणां तु मिश्रे एकोनसप्ततिः, अविरतसम्यग्दृष्टौ तीर्थकरनामसुरायुःक्षेपे एकसप्ततिः । अस्यां च एकसप्ततौ यदि मनुष्यद्विकौदारिकद्विकवऋषभनारावसंहननप्रकृतिपश्चकं नरायुष्कं च क्षिप्यते तदा (कर्मस्तवोक्ता सप्तसप्ततिर्भवत्यविरतगुणस्थानके । तथा कर्मस्तवे देशविरतगुणस्थानके या सप्तषष्टिरुक्ता सा तिरश्चां जिननामरहिता षट्पष्टिर्देशविरतगुणस्थाने भवति । प्रमत्तादीनि गुणस्थानानि तिरश्चां न सम्भवन्ति । नराणां तु सर्वगुणस्थानकसम्भवेन देशविरतादिगुणस्थानकेषु )कर्मस्तवोक्त एव सर्वोऽप्यन्यूनाधिक ओघबन्धो वाच्यः । ततश्च पर्याप्तनराणां सामान्येन बन्धे विंशत्युत्तरशतं प्रकृतीनां प्राप्यते, तेषामेव मिथ्यादृशां सप्तदशोत्तरशतम् , सासादनानामेकोत्तरशतम् , मिश्राणामेकोनसप्ततिः,, अविरतसम्यग्दृष्टीनामेकसप्ततिः, देशविरतानां सप्तषष्टिः, प्रमत्तानां त्रिषष्टिः, अप्रमत्तानामेकोनषष्टिरष्टपश्चाशद्वा, निवृत्तिबादराणां प्रथमे भागेऽष्टपञ्चाशत् , भागपश्चके षट्पञ्चाशत् , सप्तमभागे षड्विंशतिः, अनिवृत्तिबादरोणामाद्ये भागे द्वाविंशतिः, द्वितीये एकविंशतिः, तृतीये विंशतिः, चतुर्थे एकोनविंशतिः, पञ्चमेऽष्टादश च, सूक्ष्मसम्परायाणां सप्तदश, उपशान्तमोहक्षीणमोहसयोगिनामेका सातलक्षणा प्रकृतिबन्धे प्राप्यते, अयोगिनां तु बन्धाभावः । एवमन्यत्राप्योघवन्धः कर्मस्तवानुसारेण भावनीयः । उक्तस्तिर्यग्नराणां पर्याप्तानां बन्धः, अथ तेषामेवापर्याप्तानां तमाह-"जिणइक्कारसहीणं" इत्यादि । यदेव नराणामोघबन्धे विंशत्युत्तरशतं तदेव जिननामाघेकादशप्रकृतिहीनं शेषं नवोत्तरशतमपर्याप्ततिर्यग्नरा ओघतो मिथ्यात्वे च बध्नन्ति । यद्यपि करणापर्याप्तो देवो मनुष्यो वा जिननामकर्म सम्यक्त्व