________________
१२० देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा प्रत्ययेन बध्नाति तथापीह नराणां लब्ध्याऽपर्याप्तत्वेन विवक्षणाद् न जिननामबन्धः ।।९।।
तिर्यग्गतौ मनुष्यगतौ च बन्धस्वामित्वमुक्तम् । साम्प्रतं देवगतिमधिकृत्य तदुच्यते
निरय व्व सुरा नवरं, ओहे मिच्छ इगिंदितिगसहिया।
कप्पदुगे वि य एवं, जिणहोणो जोइभवणवणे ।। १० ।। व्याख्या-सुरा अपि नारकवद् ओघतो विशेषतश्च तद्वन्धस्वामिनोऽवगन्तव्याः । नवरमयं विशेषः-ओघे मिथ्यात्वगुणस्थानके च बन्धमाश्रित्य सुरा एकेन्द्रियादित्रिकसहिता द्रष्टव्याः । ततोऽयमथ-यो 'नारकाणामेकोत्तरशतरूप ओघबन्धः स एवेकेन्द्रियजातिस्थावरनामाऽऽतपनामप्रकृतित्रयसहितः सुराणां सामान्यतो बन्धश्चतुरग्रशतम् , तदेव मिथ्यात्वे जिननामरहितं धुतरशतम् , एतदेवेकेन्द्रियजातिस्थावराऽऽतपनपुसकवेदमिथ्यात्वहुण्डसेवाते • लक्षणप्रकृतिसप्तकहीनं सासादने षण्णवतिः, पण्णवतिरेवानन्तानुबन्ध्यादिषड्विंशतिप्रकृतिरहिता मिश्रे सप्ततिः, सैव जिननामनरायुकयुता द्विसप्ततिस्तामविरत सम्यग्दृष्टयो देवा बनतीति सामान्यदेवगतिवन्धः । साम्प्रतं देवविशेषनामोच्चारणपूर्वकं तमाह-''कप्पदुर्ग” इत्यादि । 'कल्पविकेऽपि' सौधर्मेशानाख्यदेवलोकद्वयेऽपि ‘एवं' सामान्यदेवबन्धवद् बन्धो द्रष्टव्यः । तथाहि-सामान्येन चतुरग्रशतम् , मिथ्यादृशां व्यग्रशतम् , सासादनानां पण्णवतिः, मिश्राणां सप्ततिः, अविरतानां द्विसप्ततिः । देवोघो जिननामकर्महीनो ज्योतिष्कभवनपतिव्यन्तरदेवेषु तद्देवीषु च विज्ञेयः, जिनकर्मसत्ताकस्य / तेषूत्पादाभावेन तत्र तबन्धासम्भवात् , ततः सामान्यतस्त्र्यधिकशतम् , मिथ्यात्वेऽपि व्यधिकशतम् , सासादने षण्णवतिः, मिश्रे सप्ततिः, अविरते एकसप्ततिः ।। १० ॥
रयण व्व सणंकुमाराइ आणयाई उज्जोयचउरहिया ।
अपज तिरिय व्व नक्सयमिगिंदिपुढविजलतरुविगले ॥ ११ ॥ व्याख्या-सनत्कुमाराद्याः सहस्रारान्ता देवा रत्नप्रभादिप्रथमपृथिवीत्रयनारकवद् बन्धमाश्रित्य द्रष्टव्याः । तद्यथा-सामान्येनैकाग्रशतम् , मिथ्यादृशां शतम् , सासादनानां पण्णवतिः, मिश्राणां सप्ततिः, अविरतानां द्विसप्ततिः । आनताद्या ग्रैवेयकनवकान्ता देवा अपि उद्योतमामतिर्यग्गतितिर्यगानुपूर्वीतियंगायुःप्रकृतिचतुष्परहिता रत्नप्रभादिनारकवदेव द्रष्टव्याः, ततः सामान्यतः सप्तनवति ते बध्नन्ति, मिथ्यादृशः षण्णवतिम् , सासादना द्विनवतिम् , मिश्रेऽविरते चोद्योतादिचतुष्कस्य प्रागेवापनीतत्वात् सम्पूर्ण एव रत्नप्रभादिभङ्गः, ततो मिश्राः सप्ततिं अविरता द्विसप्ततिं बध्नन्ति । मिथ्यात्वादिगुणस्थानत्रयाभावात् पश्चानुत्तरविमानदेवा एतामेवाविरतगुणस्थानकसत्कां द्विसप्तति बध्नन्तीत्यनुक्तमपि ज्ञेयभिति । उक्तं देवगतो बन्धस्वामित्वम् ,