________________
४-८] बन्धस्वामित्वाख्यस्तृतीयः कर्मग्रन्थः।
११७ ततस्तत्र सामान्येन शतम् , मिथ्यादृशां च शतम् , सासादनानां पण्णवतिः, मिश्राणां सप्ततिः, अविरतसम्यग्दृष्टीनामेकसप्ततिः । इह सामान्यपदेऽविरतसम्यग्दृष्टिगुणस्थाने च रत्नप्रभादिभङ्गस्तीर्थकरनाम्ना हीन उक्तः । मिथ्यादृष्टयादिषु त्रिषु गुणस्थानेषु पुनस्तस्य प्रागेवाऽपनीतत्वात् तदवस्थ एव ॥५॥
अजिणमणु आउ ओहे, सत्तमिए नरदुगुच्च विण मिच्छे ।
इगनवई सासाणे, तिरिमाउ नपुसचउवज्जं ॥६॥ व्याख्या-रत्नप्रभादिनरकत्रयसामान्यबन्धाधिकृतकोत्तरशतमध्याजिननाममनुजायुपी मुक्त्वा शेषा नवनवतिरोघबन्धे सप्तमपृथिव्यां नारकाणां भवति । सैव नवनवतिर्नरगतिनरानुपूर्वीरूपनरद्विकोच्चैात्रै विना षण्णवतिमिथ्या दृष्टिगुणस्थाने भवति । सेव षण्णवतिस्तिर्यगायुर्नपुसकवेदमिथ्यात्वहुण्डसंस्थानसेवार्तसंहननवर्जिता एकनवतिः सासादने सप्तम्यां नारकाणाम् ॥६॥
अणचउवीसविरहिया, सनरदुगुच्चा य सयरि मीसदुगे।
सतरसउ ओहि मिच्छे, पज्जतिरिया विणु जिणाहारं ॥७॥ __व्याख्या-प्रागुक्ता एकनवतिरनन्तानुबन्ध्यादिचतुर्विंशतिप्रकृतिभिर्विरहिता । नरद्विकोच्चैगोत्राभ्यां च सहिता सप्ततिर्भवति, सा च 'मीसदुगे" त्ति मिश्राऽविरतगुणस्थानद्वये द्रष्टव्या । इह सप्तम्यां नरायुस्तावद् न बध्यत एव, तद्धन्धाभावेऽपि च मिश्रगुणस्थानकेऽविरतगुणस्थानके च नरद्विकं बध्यते । अयमर्थः-नरद्विकस्य नरायुषा सह नावश्यं प्रतिबन्धो यदुत यत्रैवायुर्वध्यते तत्रैव गत्यानुपूर्वीद्वयमपि तस्याऽन्यदाऽपि बन्धात् ; मिथ्यात्वसासादनयोस्तु कलुषाध्यवसायत्वेन नरद्विकं न बध्यते ।।
एवं नरकगतो बन्धस्वामित्वं प्रतिपाद्य अथ तिर्यग्गतौ तदाह-"सतरसउ" इत्यादि । विंशत्युत्तरशतं जिननामाऽऽहारकद्विकं च विना शेषं सप्तदशोत्तरशतमोघे मिथ्यादृष्टिगुणस्थाने च पर्याप्तास्तियश्चो बध्नन्ति । अत्रौघे तिरश्च सत्यपि सम्यक्त्वे भवप्रत्ययादेव तथाविधाध्यवसायाभावात् तीर्थकरनाम्नः सम्पूर्णसंयमाभावाद् आहारकद्विकस्य च बन्धो नास्तीति हृदयम् ।। ७ ।।
विण नरयसोल सासणि, सुराउ अण एगतीस विण मीसे।
ससुराउ सयरि सम्मे, घोयकसाए विणा देसे ।। ८ ।
व्याख्या-प्रागुक्तं सप्तदशोत्तरशतं नरकत्रिकादिषोडशप्रकृतीविना एकोत्तरशतं सासादने पर्याप्ततिरश्चाम् । एतदेवकोत्तरशतं/ सुरायुरनन्तानुबन्ध्यायकत्रिंशत्प्रकृतीश्च विना एकोनसप्ततिः. सा मिश्रगुणस्थाने बध्यते । अयं भावार्थ:-" 'सम्मामिच्छद्दिट्ठी आऊबंधं पि न
१ सम्यग्मिध्यादृष्टिरायुर्बन्धमपि न करोति ।।